________________
८२०
न्यायकोशः। रूपा यत्र यत्र सात्मकत्वाभावस्तत्र तत्र प्राणादिमत्त्वाभावः यथा घटादौ इति व्यतिरेकव्याप्तिरेवास्ति ( त० कौ० २ पृ० १२)। [ख] केचित्तु हेत्वभावसाध्याभावयोर्व्याप्तिर्व्यतिरेकव्याप्तिः । सा च साध्याभावनिरूपिता हेत्वभावनिष्ठा व्यापकत्वरूपा । व्यापकत्ववत्त्वं च हेतोः स्वाश्रयप्रतियोगित्वसंबन्धेन । तेन व्याप्तहेतुनिष्ठत्वमुपपद्यते । अन्यत्र चैवमुक्तम् । ननु अन्यनिष्ठव्याप्त्या कथं साधनादनुमितिः इति चेदत्राहुः । साध्याभावव्यापकीभूताभावप्रतियोगित्वेन साधनस्य पक्षवृत्तित्वज्ञानं सहकारि (सि० च० २ पृ० २६) इति । अत्रार्थे व्यतिरेकः अभावः । अर्थात्साध्यस्य । तथा च साध्याभावनिरूपिता व्याप्तिर्व्यतिरेकव्याप्तिः इति व्यतिरेकव्याप्तिशब्दः संगमनीयः ( वाक्य० २ पृ० १५ )। यथा पर्वतो वह्निमान्धूमादित्यादौ यो यो वह्नयभाववान् स धूमाभाववान् इति ( वाक्य० २ पृ० १५) । अत्रोक्तम् । व्याप्यव्यापकभावो हि भावयोर्या दृगिष्यते । तयोरभावयोस्तस्माद्विपरीतः प्रतीयते । अन्वये साधनं ब्याप्यं साध्यं व्यापकमिष्यते । साध्याभावोन्यथा व्याप्यो व्यापकः साधनात्ययः ॥ ( सि० च० २ पृ० २६ ) (प्र० प्र०)। व्याप्यस्य वचनं पूर्व व्यापकस्य ततः परम् । एवं परीक्षिता व्याप्तिः
स्फुटीभवति तत्त्वतः ॥ (त० कौ० २ ) इति । व्यतिरेकि-१ अत्यन्ताभावप्रतियोगि । यथा व्यतिरेकिसाध्यकस्थले
व्यतिरेकिहेतुकस्थले च इत्युक्त पर्वतो वह्निमान्धमादित्यादौ वढेधुमस्य च व्यतिरेकित्वम् । २ पूर्वोक्तेन व्यतिरेकेण विशिष्टम् । ३ व्यतिरेकव्याप्तिविशिष्टहेतुकमनुमानम् । यथा पृथिवी इतरेभ्यो भिद्यते गन्धव
त्त्वात् इत्याद्यनुमानम् । अत्राधिकं तु केवलव्यतिरेकिशब्दे दृश्यम् । व्यतिरेकिहेतुः-( अवयवः) [क] तथा वैधात् (गौ०१।१।३५)।
उदाहरणवैधाच्च साध्यसाधनं हेतुः । कथम अनित्यः शब्द उत्पत्तिधर्मकत्वात् अनुत्पत्तिधर्मकं नित्यम् यथा आत्मादि द्रव्यम् ( वात्स्या० १।१।३५ )। [ख] ज्ञातव्यतिरेकव्याप्तिकहेतुबोधको हेत्ववयवः । [ग] अप्रतीतान्वयव्याप्तिकहेतुबोधको हेत्ववयवः (गौ० वृ०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org