________________
न्यायकोशः। अन्वयव्याप्तिः-(व्याप्तिः) प्रकृतिहेतुनिष्ठा प्रकृतसाध्यनिरूपिता व्याप्तिः।
अन्वयनिरूपिता व्याप्तिरित्यर्थः (ग० सामा० )। अन्वयव्याप्तावयं नियमः-अन्वये साधनं व्याप्यं साध्यं व्यापकमिष्यते। साध्याभावोन्यथा व्याप्यो व्यापकः साधनात्ययः ॥ इति ( त० कौ० १२ ) ( सि० च० २।२६)। हेतुसाध्ययोर्व्याप्तिः (त० दी० २।२३ )। यथा यत्र धूमस्तत्राग्निः इति साहचर्यनियमः ( त० सं० )। धूमव्यापकवह्निसामानाधिकरण्यमित्यर्थः (न्या० बो० २।१४ ) । व्याप्तिश्चात्यन्ताभावान्योन्या.भावभेदेन भिन्ना अव्यभिचरितसामानाधिकरण्यव्यापकसामानाधिकरण्यरूपा ( ग० सामा० २३ )। साध्यवदन्यावृत्तित्वहेतुव्यापकसाध्यसामानाधिकरण्यादिरूपेत्यर्थः (न्या० बो० २।१४) । तद्भेदतत्स्वरूपतल्लक्षणप्रपञ्चश्व व्याप्तिशब्दव्याख्यानावसरे सविस्तरं संपादयिष्यते इत्यत्रैव विरम्यते । अन्वयिहेतुः- ( अवयवः ) [क] उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः ( गौ० १।१।३४ ) । उदाहरणेन सामान्यात्साध्यस्य धर्मस्य साधनं प्रज्ञापनं हेतुः । साध्ये प्रतिसंधाय धर्ममुदाहरणे च प्रतिसंधाय तस्य साधनतावचनं हेतुः । उत्पत्तिधर्मकत्वादिति उत्पत्तिधर्मकमनित्यं दृष्टमिति ( वात्स्या० . १।१।३४ ) । उदाहरणसाधर्म्यमुदाहरणबोध्यान्वयव्याप्तिः । ततोन्वयी हेतुतिव्यः ( गौ० वृ० १।१।३४ )। अन्वयिहेतुलक्षणं चान्वयिहेतुत्वमेव । तच्च अनुमितिकारणीभूत परामर्शप्रयोजकशाब्दज्ञानकारणसाध्याविषयकशाब्दधीजनकप्रतीतान्वयसाध्यसाधनवाचकहेतुविभक्तिमच्छब्दत्वम् । अस्यार्थप्रयोजनादिकं च हेतुशब्दव्याख्यानावसरे संपादयिष्यते । अन्वयव्याप्त्यभिधायकावयवाभिधानप्रयोजकज्ञानजनकहेतुत्वप्रतिपादकविभक्तिमन्न्यायावयवत्वम् ( चि० २।७९ )। [ख ] ज्ञातान्वयव्याप्तिकहेतुबोधको हेत्ववयवः ( गौ० वृ० १।१।३४ )। यथा पर्वतो वह्निमान्धूमान्महानसवदित्यादौ धूमात् इति शब्दः। न्या० को० ७.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org