________________
४८
न्यायकोशः। विद्यन्ते । केवलान्वयिनि विपक्षाव्यावृत्तिर्नास्ति। विपक्षाप्रसिद्धः । केवलव्यतिरेकिणि तु सपक्षसत्त्वं नास्ति । सपक्षाप्रसिद्धः (त०कौ०१२)। अबाधितविषयत्वमित्यत्र व्युत्पत्तिः अबाधितो विषयः साध्यं यस्येत्यबाधितविषयः । तस्य भावः अबाधितविषयत्वम् इति । अत्राबाधितविषयत्त्रं च प्रमाणान्तरेणाप्रमितसाध्याभावकत्वं बोध्यम् ( त० कौ० १२) ( सि० च० २।२६) । असत्प्रतिपक्षत्वं च साध्याभावसाधकहेत्वन्तरशून्यत्वं बोध्यम् (त० कौ० १२ ) ( सि० च०.२।२७)। [ख] सत्सपक्षविपक्षो हेतुः । यथा वह्निमान् धूमादित्यादौ (मु०२१९)। अत्र सपक्षस्य महानसादेः विपक्षस्य जलहदादेश्च सत्त्वात् इति (मु० २१९ )। [ग] अन्वयेन व्यतिरेकेण च व्याप्तिमत् (त० सं० ) । अन्वयसहचारग्रहप्रायव्याप्तिमत्त्वे सति व्यतिरेकसहचारग्रहग्राह्यव्याप्तिमदित्यर्थः (नील० २।२३)। [५] यत्रान्वयव्याप्तिर्व्यतिरेकव्याप्तिश्च विद्यते तत् । यथा वह्निमान्धमादित्यादौ निरुक्तपञ्चरूपोपपन्नो धूमः (प्र० प्र०)(त. कौ० १२)। अत्र पर्वतः पक्षः । तस्य वह्निमत्त्वं साध्यम् । धुमात् इति हेतुः । तस्मिन् हेतौ यत्र यत्र धूमस्तत्र तत्र वह्निर्यथा महानसादौ इत्यन्वयव्याप्तिः । यत्र यत्र वह्नयभावस्तत्र तत्र धमाभावः यथा जल
हृदादौ इति व्यतिरेकव्याप्तिश्चास्तीति ज्ञेयम् ( त कौ० १२)। अन्वयव्यतिरेकी—(अवयवः) [क] प्रतीतान्वयव्यतिरेकव्याप्तिकहेतुबोधको हेत्ववयवः ( गौ० वृ० १।१।३४ )। [ख] अन्वयव्यतिरेकोदाहरणाकाङ्क्षाप्रयोजकहेतुत्वप्रतिपादकविभक्तिमन्न्यायावयवः । [ग] पक्षसपक्षसतो विपक्षासतो हेतोर्वचनम् ( चि० अव० २।०९)।
यथा पर्वतो वह्निमान्धूमादित्यत्र धूमात् इति पदम् । अन्वयव्यभिचारः—(व्यभिचारः)। कारणसमवधानाव्यवहितोत्तरक्षणावच्छेदेन कारणतावच्छेदकावच्छिन्नयत्किचिव्यक्त्यधिकरणे कार्याभाववत्त्वम् । कारणसत्त्वे कार्याभाव इति संक्षिप्तार्थः । यथा समाप्ति प्रति मङ्गलस्य कारणत्वे वक्तव्ये कादम्बर्यादावाशङ्कितोन्वयव्यभिचारः (त० दी० १११)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org