________________
न्यायकोशः। मते तु राजपुरुषः इत्यादौ लुप्तषष्ठयादिविभक्त्या स्मृतया प्रतिपाद्येनैव स्वस्वामिभावसंबन्धेन ( न तु साक्षात् ) राजपदार्थस्य पुरुषादावन्वयः स्वीकृत इति (मु० ४ पृ० १८२ )। उक्तव्युत्पत्तावव्ययनिपातातिरिक्तेतिपदप्रयोजनमुच्यते । घटो न पटः इत्यादौ घटपटाभ्यां नत्रः साक्षादेवान्वयात् निपातातिरिक्त इति पदं दत्तम् । चन्द्र इव मुखम् इत्यादी इवार्थसादृश्ये चन्द्रस्य प्रतियोगितया भेदेनान्वयात् अव्ययातिरिक्त इति च पदं दत्तम् । नीलो घटः इत्यादौ नामार्थयोः स्तोकं पचति इत्यादौ क्रियाप्रातिपदिकार्थयोश्चाभेदेनान्वयात् भेदेन इत्युक्तम् । भूतले घटः इत्यादौ आधेयतासंसर्गेणापि घटभूतलयोरन्वयात् साक्षात् इति पदम् । प्रत्ययार्थमद्वारीकृत्य इति साक्षात् इत्यस्यार्थः (मु० ४ पृ० १८२ ) ( दि०)। भेदेन इत्यस्य तु तादात्म्यातिरिक्तेन इत्यर्थो बोध्यः । राजा पुरुषः इत्यादौ स्वत्वरूपभेदसंबन्धेन राजपदार्थस्य पुरुषादावन्वयमादाय राजसंबन्धी पुरुषः इति बोधवारणायास्या व्युत्पत्तेरावश्यकत्वम् । कर्मतानिरूपकत्वसंबन्धेनापि ( भेदसंबन्धेन ) तण्डुलादिपदार्थस्य पचनक्रियायामन्वयमादाय तण्डुलकर्मकः पाकः इत्याकारकंबोधमादाय तण्डुलः पचति इति प्रयोगवारणाय चेयं व्युत्पत्तिरवश्यं स्वीकार्या इति (मु० ११४ पृ० १८२ ) (ग० अवय० हेतु०) । अत्रेदमवधेयम्-पचिक्रियायां तण्डुलादिकर्मकत्वप्रकारकशाब्दबुद्धित्वावच्छिन्नं प्रति द्वितीयान्ततण्डुलपदसमभिव्याहृतपचतिपदसममिव्याहाररूपाकाङ्क्षाज्ञानं कारणम् इत्यावश्यककार्यकारणभावेनैव तण्डुलः पचति इत्यादिप्रयोगवारणोपपत्तावलमेतादृश्या व्युत्पत्त्येति ( ग०
अवय० हेतुप्र० ) (ग० व्यु० कार० २ )। अन्वयव्यतिरेकि-(लिङ्गम् ) [क] गृहीतान्वयव्यतिरेकिसाध्यकम् (दीधि० २।१५६)। अन्वयव्यतिरेकि तु पश्चरूपोपपन्नं भवति । पञ्च रूपाणि च पक्षधर्मत्वम् सपक्षे सत्त्वम् विपक्षाव्यावृत्तिः अबाधितविषयत्वम् असत्प्रतिपक्षत्वं चेति ( सि० च० २।२६ ) ( त० कौ० २।१२)। एतानि पञ्च रूपाणि च वह्निसाध्यकधमादावन्वयव्यतिरेकिण्येव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org