________________
न्यायकोशः ।
1
( गौ० ) ( वात्स्या० २।१।६२ ) ( गौ० वृ० २।१।६२ ) । मीमांसकास्तु विधिमन्त्रनामधेयनिषेधार्थवादभेदात्पश्र्वविधो वेदः इत्याहुः ( लौ० भा० पृ० १२ ) । सांख्यास्त्वित्थं वदन्ति । न नित्यत्वं वेदानाम् । कार्यत्वश्रुतेः ( सांख्य० सू० ५।४५ ) । स तपोतप्यत ( तै० २|६| १ ) तस्मात्तपस्ते - पानात्रयो वेदा अजायन्त इति श्रुतेश्च । वेदनित्यतावाक्यानि च सजातीयानुपूर्वी प्रवाहानुच्छेदपराणि इति ( सां० भा० ५/४५ पृ० १८२ ) । अत्रायं विशेषो ज्ञेयः । आर्षं छन्दो दैवतं च विनियोगस्तथैव च । वेदितव्यं प्रयत्नेन ब्राह्मणेन विशेषतः || अविदित्वा तु यः कुर्याद्यजनाध्ययनं जपम् । होममन्तर्जले दानं तस्य चाल्पफलं भवेत् ॥ ( याज्ञव ० ) ( वाच० ) इत्यादिः । २ विष्णुः ( विष्णुसं० ) । ३ ज्ञानम् । शास्त्रीयज्ञानं वा । ४ शास्त्रोकं चरित्रम् (मेदि०) । ५ दर्भमुष्टिकृतः पदार्थविशेषः । यथा वेदं कृत्वा वेदिं कुर्यात् ( श्रुतिः ) इत्यादौ । ६ ज्ञापकम् । अत्रार्थे व्याकरणम् वेदयति विद् णिच् अच वेदः इति । ७ ज्ञाता । यथा वेदोसि येन त्वं देवेभ्यो वेदोभवस्तेन मह्यं वेदो भूयाः इत्यादौ ( यजुः ० २।२१ ) । अत्र कर्कभाष्यम् पत्नी वेदं प्रति वेदोसि इति । हे कुशमुष्टिनिर्मित पदार्थ त्वं वेदोसि ऋगाद्यात्मकोस । यद्वा वेतीति वेदः । ज्ञातासि । देवेभ्यो देवानां वेदोभवो ज्ञापको भूः इति ( वाच० ) ।
वेदनास्कन्धः - प्रागुक्तस्कन्धद्वयसंबन्ध जन्यः सुखदुःखादिप्रत्ययप्रवाहः ( सर्व० सं० पृ० ४० बौ० ) ।
वेदवाक्यम् —— प्रमाणान्तरागोचरार्थप्रतिपादकं वाक्यम् (सर्व० सं० प्र० २७३ - २७४ जै० ० ) ।
वेदान्तः वेदशिरोभागो ब्रह्मप्रतिपादक उपनिषद्रूपो ग्रन्थविशेषः । यथा ऐतरेय ब्रह्मवल्ली नारायण ईश बृहदारण्यक छान्दोग्य प्रश्न माण्डूक्य इत्यादय उपनिषदः । वेदान्त उत्तरमीमांसा इति व्यवह्नियते । कर्मकाण्डानन्तरविचार्यत्वात् इति ज्ञेयम् । अत्र व्युत्पत्तिः वेदानां ऋगादीनाम् अन्तश्चरम
-
८०७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org