________________
४०८
न्यायकोशः। । भागः इति वेदानामन्तो निर्णयो यत्र सः इति वा वेदान्तः । अत्र
उपनिषदर्थनिर्णायकत्वेन ब्रह्मसूत्राणामपि वेदान्तत्वमुपचर्यते इति विज्ञेयम् । अत्रेदं बोध्यम् । श्रीपूर्णप्रज्ञाचार्यैः (मध्वाचायः) विरचिताद्भाष्याप्राक् ब्रह्मसूत्राणां व्याख्यातार एकविंशतिसंख्यका आसन् । ते च भारतीविजयः १ संविदानन्दः २ ब्रह्मघोषः ३ शतानन्दः ४ उद्धतः ५ विजयः ६ रुद्रभट्टः ७ वामनः ८ यादवप्रकाशः ९ रामानुजः १० भर्तृप्रपञ्चः ११ द्रविडः ( शठकोपः ) १२. ब्रह्मदत्तः १३ भास्करः १४ पिशाचः १५ वृत्तिकारः ( बौधायनः ) १६ विजयभट्टः १७ विष्णुकान्तः १८ वादीन्द्रः १९ माधवदासः २० शंकरभारती २१ (मध्वविज० ) इति । ततः पूर्णप्रज्ञाचार्यः २२ राघवेन्द्रस्वामी २३ वल्लभाचार्य २४ श्चेति । तत्र शंकरभारती रुद्रस्य मणिमतो वावतारः । तस्त जन्म विक्रमशाके ८४५ वर्षे केरलदेशे कालपी ( कालडी ) प्रामे मातापितृभ्यामार्याम्बाशिवभट्टाख्याभ्यामभूत् । तस्य दैशिकाचार्यो गोविन्दभट्टः । परमगुरुगौडपादः । गौडपादस्य तु वक्कनामा बौद्धो गुरुः । शंकरभारत्या अध्यापको ब्रह्मदत्तः । मतं तु मायावादः इति । रामानुजस्य च शेषावतारत्वाभिमतस्य जन्म शाके १०४९ वर्षे चोलदेशे भूतपुर्या प्रेमधुलाख्यायां (पेरंबुदूर इति ग्रामे ) मातापितृभ्यां कान्तिमतीकेशवाख्याभ्यां समजनि । एतस्याध्यापकस्तु मातुलो यादवप्रकाश एव । मतं विशिष्टाद्वैतम् । विशिष्टाद्वैतमतप्रवर्तकः कूटस्थस्तु शठकोपाचार्यः इति । वायोरवतारस्य मध्वाख्यपूर्णप्रज्ञाचार्यस्य च जन्म शाके ११०० वर्षे कर्णाटदेशे रजतपीठाख्ये ( उडपी ) ग्रामे मातापितृभ्यां वेदवेदीमध्यगेहाख्याभ्यां समजनि । एतस्याध्यापकोच्युतप्रेक्ष्याचार्यः। मतं तु द्वैतवादः इति । वल्लभाचार्यस्य कृष्णस्वरूपत्वाभिमतस्य तु जन्म संवत् १५३५ वर्षे आन्ध्रदेशे काङ्करवाख्ये प्रामे मातापितृभ्यां यल्लम्मालक्ष्मणाभ्यां समभवत्। एतस्याध्यापको नारायणभट्टः । मतं तु शुद्धाद्वैतम् इति । वेदिः-आहवनीयगार्हपत्यमध्यवर्तिनी चतुरङ्गुलखाता भूमिः ( जै० न्या०
अ० १ पा० ३ अधि० ४ )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org