________________
८०५
न्यायकोशः। वास्मदादिबुद्ध्यगोचरत्वात् । तेन स्वतत्रपुरुषपूर्वकत्वं वेदे सिद्ध्यति (वै० उ० ६।१।१ ) ( वात्स्या० २।१।६८ ) इति । किं च वेदस्याप्रामाण्यशङ्कानिवारणमपि कृतम् न कर्मकर्तृसाधनवैगुण्यात् ( गौ० २।१।५८ ) इति । एवं च परमाप्तसर्वज्ञेश्वरप्रणीतत्वेन वेदस्य प्रामाण्यं सिद्ध्यति इति। [ग] केचिद्वेदान्तिनस्तु अपौरुषेयत्वे सति समयबलेन परोक्षानुभवसाधनं वेदः इत्याहुः (माध० भाष्य०) । अत्र पौरुषेयत्वं च सजातीयोच्चारणानपेक्षोच्चारणविषयत्वम्। तादृशोच्चारणजातीयत्वं वा । तथा च सर्गाद्यकाले परमेश्वरः प्राणिनां भोगभूतये लीलाविग्रहं परिगृह्य पूर्वसर्गसिद्धवेदानुपूर्वीसमानानुपूर्वीकं वेदं विरचितवान् न तु तद्विजातीयं वेदम् इति न पौरुषेयत्वं वेदस्य । भारतादीनां तु सजातीयोच्चारणमनपेक्ष्यैवोच्चारणम् इति तेषां पौरुषेयत्वम् (वेदान्तप० आगमपरि० पृ०५५) (मथुराना० ) इति। वेदस्येश्वरकर्तृकत्वे प्रमाणम् अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः (बृ०. २।४।१०) तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत इति च । इदं सर्वमसृजत ऋचो यजूंषि सामानि इति तेपानात्रयो वेदा अजायन्त इति च । परं तु ऋग्वेद एवाग्नेरजायत यजुर्वेदो वायोः सामवेद आदित्यात् इत्यादिश्रुतेः ईश्वरस्याम्यादिप्रेरकत्वेन निर्मातृत्वं गम्यते । अत्र प्रतिमन्वन्तरं चैषा श्रुतिरन्याभिधीयते इत्यागमोपि द्रष्टव्यः ( चि० ४ )। अत्रान्येत्यस्य तद्भिन्ना तत्सदृशी इत्यर्थः । तेन पूर्वमन्वन्तरस्थत्वं निषिध्यते। प्रत्येकं मत्रब्राह्मणवन्तो. वेदाश्चत्वारः ऋग्वेदः यजुर्वेदः सामवेदः अथर्ववेदश्चेति । तत्र ऋग्वेदस्य शाकलादयो दश भेदाः ( शाखाः ) भवन्ति । यजुर्वेदस्य चरकादयः षडशीतिर्भेदा भवन्ति । तत्र वाजसनेयानां जाबालादयः सप्तदश भेदा भवन्ति । तैत्तिरीयाणां द्विभेदा भवन्ति औक्ष्याः खाण्डिकेयाश्चेति । तत्र खाण्डिकेयानां पञ्च भेदा भवन्ति । आपस्तम्बी बौधायनी सत्याषाढी ( हिरण्यकेशी ) भारद्वाजी वाधूली चेति । सामवेदस्य किल सहस्रं भेदा आसन राणायनीयाः कौथुमाः इत्यादयः (१०००)। अत्रोक्तम् अनध्यायेष्वधीयानास्ते शतक्रतुषत्रेणा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org