________________
न्यायकोशः ।
1
वेदाः । काठकं कालापकम् पैप्पलादकं मौहुलकम् ( शाब० भा० १।१।२७ ) इति । अथ वा तत्तच्छाखाकर्तृत्वेन पुरुषा आख्यायन्ते काठकम् कौथुमम् तैत्तिरीयम् इति । अत्र समाधत्ते उक्तं तु शब्दपूर्वत्वम् । आख्या प्रवचनात् ( जैमि० १|१|२९-३० ) इति तदर्थस्तु वेदानां प्राचीनत्वम् उपाध्यायप्रवचनरूपसंप्रदाय प्रवर्तकवेन समाख्या इति । पुनः शङ्कते अनित्यदर्शनाच ( जैमि० १। ।२८ ) इति । तदर्थस्तु जननमरणवन्तश्च वेदार्थाः श्रूयन्ते बबर: प्रावाहणिरकामयत कुसुरुविन्द औद्दालकिरकामयत इत्येवमादयः । उद्दालकस्यापत्यं गम्यत औद्दालकिः इति ( शाब० भा० १।१।२८ ) । अत्र समाधत्ते परं तु श्रुतिसामान्यमात्रम् ( जैमि० १।१।३१ ) इति । तदर्थस्तु बबरध्वनियुक्तप्रवहणस्वभावो वायुरेव । न तु प्रवहणनामकः पुरुषः । असिद्धत्वात् (शाब० भा० १।१।३१ ) इति । नैयायिकास्तु वेदस्येश्वरकर्तृकत्वं मन्यन्ते । तत्कर्तृत्वे प्रमाणमनुमानम् । तच्च वेदः पौरुषेयो वाक्यत्वाद्भारतादिवत् इति ( चि० ४ ) ( सर्व० पृ० २७० जैमि० ) । अस्मिन्ननुमाने श्रूयमाणकर्तृकत्वं स्मर्यमाणकर्तृकत्वं चोपाधिमुद्भावयन्ति मीमांसकादयः । तन्न सहन्ते नैयायिकाः । अत्रत्यविषयस्तर्कशास्त्रादौ द्रष्टव्यः इत्यलमतिप्रसङ्गेन । अत्र पौरुषेयत्वं च पुरुषाधीनोत्पत्तिकत्वम् ( वेदान्तप० आगमपरि० पृ० ५४ ) । वर्णानामनित्यत्वादेव वेदस्याप्यनित्यत्वम् (गौ० वृ० २।२।१३ ) । वेदस्येश्वरकर्तृत्वे मानं च विधिरेव तावदर्भ इव श्रुतिकुमार्याः पुंयोगे मानम् इत्याचार्याः प्राहुः ( कि० व० १।१ पृ० ३९ ) ( मु० गु० ) ( त० कौ० ४ ) । अन्ये त्वाहुः । वेदवाक्यानां बुद्धिमत्कर्तृकत्वे इतरबाधात् ईश्वरकर्तृकत्वं सेत्स्यति (त० व० ) इति । अत्र सूत्राणि बुद्धिपूर्वा वाक्य कृतिर्वेदे (वै० ६ १ । १ ) बुद्धिपूर्वो ददाति: ( ० ६।१।३ ) इत्यादीनि । अत्रायं भावः । वेदवाक्यरचना वक्तयथार्थवाक्यार्थज्ञानपूर्वी वाक्यरचनात्वात् नदीतीरे पश्च फलानि सन्ति इत्यस्मदादिवाक्यरचनावत् इत्यनुमानम् । न च अस्मदादिबुद्धिपूर्वकत्वेनान्यथासिद्धिः । स्वर्गकामो यजेत इत्यादाविष्टसाधनतायाः कार्यताया
1
८०४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org