________________
७९६
न्यायकोशः ।
विहिताया द्विरुक्तेर्नित्यतया यत्पदे द्विरुक्तिसत्त्वेपि तथा तत्पदे द्विरुक्तेः साधुत्वेपि च न्याये प्रयुज्यमानेधिकस्यानपेक्षितत्वेन तत्पदे द्विरुक्तेवश्यकत्वम् (ग० २ हेतु० पृ० ७४ ) इति । अत्र च वीप्सया महानसं धूमवद्वह्निमश्च महानसान्यद्भूमह्निमञ्च इति वाक्यार्थचतुष्टयविषयकबोधः धूमवान्धूमव्यापकवह्निमान् इति विशिष्टैकार्थबोधो वा जायते इति बोध्यम् (ग० २ अव० न्यायलक्ष० पृ० ६ ) । अत्र वीप्साप्रयोजनं च क्वचिद्व्यभिचारधीवारणमिति प्रा आहुः । उद्देश्यमानसव्याप्तिज्ञानविरोधिव्यभिचारधीवारणम् इत्यर्थः । तथा चायं भावः । यावद्धेत्वधिकरणे साध्यवत्त्वनिश्वये तेन व्यभिचारशङ्कानिवर्तनेन साधनाधिकरणे साध्याभाववत्त्वरूपत्र्यभिचारग्रहप्रतिबन्धो भवति । [ग] अनवयवेन द्रव्याणामभिधानमेव वीप्सार्थः इति महाभाष्यकारः पतञ्जलिराह । वीरुतू — छिन्ना अपि या विविधं प्ररोहन्ति ता लताः गुडूचीप्रभृतयः । वृत्ति: - १ [क] शाब्दबोधहेतुपदार्थोपस्थित्यनुकूलः पदपदार्थयोः संबन्धः
( चि० ४ ) ( मु० ४ पृ० १७४ ) । सा च पदवृत्तिः इत्युच्यते इति विज्ञेयम् (ग० शक्ति० पृ० २ ) । अत्र वृत्तित्वं च शक्तिलक्षणान्यतरत्वम् (त० प्र० ख० ४ पृ० ३४ ) । परे शाब्दबोधजनकपदपदार्थसंबन्धत्वम् इत्याहुः ( ल० म० स्फोट ० पृ० १३ ) | अत्रेदं बोध्यम् । वृत्तिस्तात्पर्यनिर्वाहिका भवति । तात्पर्यं चात्र त्रिविधम औत्सर्गिकम् आपवादिकम् नियतं चेति । तत्राद्यम् शक्ति कल्पयति । यथा घटादिपदप्रयोक्तरुत्सर्गतो घटादावेव तात्पर्यमस्ति इति तस्य तत्र शक्तिः । द्वितीयम् लक्षणां कल्पयति । यथा गङ्गापदस्य मुख्यार्थान्वयबाधे तीरादौ तात्पर्यग्रहो भवति इति तस्य तत्र लक्षणा । तृतीयम् निरूढिलक्षणां कल्पयति । निरूढलाक्षणिकस्यानुपपत्तिज्ञानमन्तरापि लक्ष्ये तात्पर्यग्रहनियमात्तत्र निरूढिलक्षणा । यथा कटं करोतीत्यादौ कटशब्दस्य कटा - वयवे । कटस्य सिद्धत्वे करणं न संभवति असिद्धे च कर्मत्वं न इति अनुपपत्तिज्ञानविरहेपि कटावयवान् कटवत्तया करोति इति ततो बोधात् । अथ वा वह्निमान्धूमादित्यादी हेतुपदे तज्ज्ञाने निरूढिलक्षणा ( म०प्र०
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org