________________
न्यायकोशः।
७९७ ख० ४ पृ० ४०-४१) । शाब्दिकमते वृत्त्या संस्कारो जन्यते । संस्कारकल्पिका च वृत्तिस्मृतिः शाब्दबुद्धिरेव वा इति ज्ञेयम् ( ल० म० स्फोट० पृ० २)। [ख] शक्तिलक्षणान्यतरात्मकः संबन्धः (मु० ४ ) ( दि० ४ पृ० १७४ ) (न्या० बो०)। यथा घटपदस्य कम्बुग्रीवादिमत्यर्थे वृत्तिः ( शक्तिः )। [ग] शाब्दिकास्तु शाब्दबोधप्रयोजकस्तत्तदर्थनिरूपितः शब्दधर्मः इत्याहुः (ल. म० स्फोट० पृ० २ )। न्यायमते वृत्तिर्द्विविधा संकेतः लक्षणा चेति (ग० शक्ति०) ( तर्का० ४ पृ० १० )। प्रकारान्तरेण वृत्तिर्द्विविधा मुख्या गौणी च । तत्राद्या शब्दशक्तिः । सैव संकेत इत्युच्यते । द्वितीया तु लक्षणा इति । प्राचीनशाब्दिकमते योगादिभेदात् षड्विधा शब्दवृत्तिः । वृत्तिभेदाच्च शब्दभेदः । तदुक्तम् यौगिको योगरूढश्च शब्दः स्यादौपचारिकः । मुख्यो लाक्षणिको गौणः शब्दः षोढा निगद्यते ॥ (म० प्र० ४ पृ० ४१-४२ ) इति । लक्षितलक्षणापि वृत्त्यन्तरम् इति प्राञ्चो नैयायिका आहुः । सा च लक्षितलक्षणा जहल्लक्षणैव नातिरिक्ता वृत्तिः इति नव्या आहुः । व्यञ्जनाख्यं तृतीयमपि वृत्त्यन्तरमैच्छन्नालंकारिकाः शाब्दिकाश्च । तदुक्तम् वाच्योर्थोभिधया बोध्यो लक्ष्यो लक्षणया मतः। व्यङ्गयो व्यञ्जनया ताः स्युस्तिस्रः शब्दस्य वृत्तयः॥ (सा० द० परि०२ श्लो० ११) इति। तत्र व्यङ्गयोर्थी यथा- गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शुभाः । ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥ इत्यादौ व्यञ्जनया वृत्त्या प्रियाया मरणम् । अत्र हे प्रिय तव गमनोत्तरं मे प्राणवियोगो भविष्यति अतो न गन्तव्यम् इत्यर्थो व्यज्यते। नैयायिकास्तु गच्छसि इत्युक्तेः मा गाः इति तात्पर्य मुन्नीयते संभाव्यते वा न तु मा गाः इति निर्णीयते इति कृतं वृत्त्यन्तरेण इत्याहुः (न्या० म० ४ पृ०१७)। अत्र अधिकं तु व्यञ्जनाशब्दव्याख्याने दृश्यम् । गौणी वृत्त्यन्तरमैच्छन्मीमांसकाः । यथा अग्निर्माणवकः इत्यादौ माणवकेग्निसादृश्यबोधागौणी वृत्त्यन्तरमेव ( सि० च० ४ पृ० ३१ )। यथा वा यजमानः प्रस्तरः इत्यादौ यजमानशब्दः स्वार्थनिष्ठयागसाधकत्वरूपगुण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org