________________
न्यायकोशः ।
૨૨
I
पूर्वपक्षस्तथोत्तरम् । निर्णयश्चेति शास्त्रस्मिन् पचाधिकरणं स्मृतम् ॥ ( मीमांसा० ) इति । निर्णयः सिद्धान्तः । ८ देशः इति काव्यज्ञा आहुः । विषय - १ विषयितावत् । यथा विषयी यस्य तस्यैव व्यापारो ज्ञानलक्षणः ( भा० प० श्लो० ६६ ) इत्यादौ ज्ञानं विषयि भवति । अत्रार्थे व्युत्पत्तिः विष योस्त्यस्य स्वनिष्ठविषयतानिरूपितविषयितावत्त्वसंबन्धेन इति विषयि । इयं विषयितापि ज्ञानेच्छाकृतिभावनान्यतमनिष्ठा विषयतावत्स्वरूपसंबन्धविशेषः । विषयिता च नियमेन विषयतानिरूपिता भवति इति वस्तुस्थितिः | अत्रेदं बोध्यम् । विषयितापि त्रिविधा विशेषणतानिरूपिता प्रकारिता संसर्गतानिरूपिता संसर्गिता विशेष्यतानिरूपिता विशेष्यिता चेति । यथा घटवद्भूतलम् इति ज्ञाने घटनिष्ठप्रकारतानिरूपिता प्रकारिता संयोगनिष्ठसंसर्गतानिरूपिता संसर्गिता भूतलनिष्ठविशेष्यतानिरूपिता विशेष्यिता एताः प्रकारितासंसर्गिताविशेष्यिताः सन्ति इति । सर्वत्रैववोह्यम् । अत्रेदमधिकं विज्ञेयम् । गदाधरादीनां मते विषयितात्रैविध्याङ्गीकारेण विषयितैव अनुमित्यादिप्रतिबन्धकतावच्छेदिका हेत्वाभासलक्षणादौ भवति । जगदीशचक्रवर्तिमते तु त्रिविधविषयतानिरूपिताया अप्येकस्या एव विषयिताया अभ्युपगमेन विषयतैव निरूपकता संबन्धेन तादृशप्रतिबन्धकतावच्छेदिका भवति इति मतभेदो द्रष्टव्यः । ययोर्विषयतयो-. र्निरूप्यनिरूपकभावः तन्निरूपितविषयितयोरेवावच्छेद्यावच्छेदकभावः
इति सिद्धान्तोप्यङ्गीकर्तव्यः । तेन तद्वद्विशेष्यकतत्प्रकारकत्वरूपस्य तद्वद्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्वपर्यवसन्नस्य यथार्थज्ञानलक्षणस्य रङ्गत्वेन रजतावगाहिंनिं रजतत्वेन रङ्गावगाहिनि इमे रङ्गरजते इत्याकारकसमूहालम्बन भ्रमे यथाश्रुतस्य तद्वद्विशेष्यकतत्प्रकारकत्वस्य (रङ्गविशेष्यकत्वरङ्गत्वप्रकारकत्वयोः रजतविशेष्यकत्वरजतत्वप्रकारकत्वयोश्च ) सत्त्वेपि रङ्गत्व प्रकारतायां रङ्गविशेष्यतानिरूपितत्वस्य रजतत्वप्रकारतायां च रजतविशेष्यतानिरूपितत्वस्य चासत्त्वेन रङ्गविशेष्यकत्वावच्छिन्नरङ्गत्वप्रकारक - त्वरजत विशेष्यकत्वावच्छिन्नरजतत्वप्रकारकत्वयोरभावात् तादृशभ्रमे नातिव्याप्तिः ( नील० १ पृ० १५ ) । २ इन्द्रियम् । अत्रार्थे स्वविषयक - १०० न्या० को ०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org