________________
७९२
न्यायकोशः। • संबन्धविशेषः किंतु सप्तपदार्थातिरिक्तैव इत्येकदेशिन आहुः । भट्टास्तु - ज्ञातो घटः इति प्रतीतिसिद्धा ज्ञानजन्या विषयनिष्ठा प्राकट्यापरनाम्नी । पदार्थे ज्ञातता सैव च विषयता ज्ञानविषययोः संबन्धरूपा इत्याहुः
( १० मा० ) (न्या० म० १।४) । विषयता ज्ञानादिवत् सविषयका प्रसिद्धविषयतातोन्या इत्यतिरिक्तविषयतावाद्याह ( दीधि० हेत्वाभा० बाध० पृ० २१८ ) । विषयो हि द्विविधः अपरोक्षः परोक्षश्चेति । तत्राद्यः प्रत्यक्षस्य विषयः । द्वितीयस्त्वनुमानस्य विषयः शब्दस्य विषयश्च (प्र० च० पृ० ४१ ) इति । २ प्रतीयमानभोगसाधनम् । यथा अनित्यपृथिवीजलतेजोवायुभागो व्यणुकादिर्विषयः । विषयता चात्र लौकिकसाक्षात्कारविषयकार्यद्रव्यत्वम् । वस्तुतस्तु लौकिकसाक्षात्कारविषयत्वमेव द्रव्यगुणकर्मसामान्याभावसाधारणं विषयत्वम् (वै० उ० ४।२।१ पृ० २०९) । अथ वा साक्षात्परंपरया वोपभोगसाधनत्वे सति जन्यद्रव्यत्वम् ( वै० वि० ४।२।१ ) । अत्रायं नियमः यच्च कार्य यददृष्टा
धीनम् तत् तदुपभोगं साक्षात्परंपरया वा जनयत्येवेति (मु० १ )। - यद्वा शरीरेन्द्रियभिन्नत्वे सति भोगसाधनत्वम् ( वाक्य० १ पृ० ३)।
ज्ञायमानत्वे सति आत्मनो भोगसाधनत्वम् ( त० कौ० ) इति वा । . ३ ग्रन्थस्य प्रतिपाद्योों विषयः (म० प्र० ४)। ४ पौराणिकास्तु इन्द्रियजन्यज्ञानविषयः। यथा शब्दस्पर्शरूपरसगन्धा विषयाः इत्याहुः। अत्रार्थे विग्रहः विषण्वन्ति स्वात्मकतया विषयिणं निरूपयन्ति संबध्नन्ति वा विषयाः इति । अत्रोच्यते विषयाशामहापाशाद्यो विमुक्तः सुदुस्त्यजात्। स एव कल्पते मुक्त्यै नान्यः षट्शास्त्रवेद्यपि ॥ (विवेकचूडामणौ) इति। ५ नियामकः इति भट्ट आह । अत्रार्थे व्युत्पत्ति प्रदर्शयति विशब्दो हि विशेषार्थः सिनोतिर्बन्धनार्थकः । विशेषेण सिनोतीति विषयोतो नियामकः ॥ ( भट्टका० ) इति । ६ आलंकारिकास्तु आरोपाश्रयः । यथा गौर्वाहीक इत्यादौ वाहीको विषयः इत्याहुः ( काव्यप्र० उ० २)। ७ मीमांसकाश्च [क] अधिकरणावयवविशेषो विचाराईवाक्यम् । [ख ] आपाततः प्रतीतः संदिग्धोर्थो विषयः ( जै० न्या० अ० १ पा० १ अधि० १ ) इत्याहुः । अत्रोच्यते विषयो विशयश्चव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org