________________
न्यायकोशः।
७९१ इति जगदीश आह । गदाधरमते तु तयोर्भेद इत्यवच्छेद्यावच्छेदकभावः स्वीकर्तव्यः । स चेत्थम् । दण्डत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ना या पुरुषनिष्ठविशेष्यतानिरूपिता दण्डनिष्ठा प्रकारता तद्वान् दण्डो भवतीति । एवं वैपरीत्येनापि पुरुषनिष्ठविशेष्यतानिरूपितदण्डनिष्ठप्रकारत्वावच्छिन्ना या दण्डत्वनिष्ठप्रकारतानिरूपिता दण्डनिष्ठविशेष्यता तद्वान्
दण्डो भवतीति । विशेष्यता-व्यावाभाववत्तैव भाविकी हि विशेष्यता ( सर्व० सं०
पृ० ४४२ शां० )। विशेष्यासिद्धः– (हेत्वाभासः) यो हेतुः स्वघटकविशेष्यविशिष्टः सन्पक्षे
न तिष्ठति न सिध्यति च सः। यथा शब्दो नित्यः अस्पर्शत्वे सति द्रव्यत्वादित्यादौ हेतुर्विशेष्यासिद्धः। अत्र अस्पर्शत्वविशिष्टं द्रव्यत्वं हेतुः। स च शब्दे नास्त्येव । शब्दे अस्पर्शत्वरूपविशेषणस्य सत्त्वेपि द्रव्यत्वास्मकस्य विशेष्यस्याभावात् इति । अत्र विग्रहः विशेष्येणासिद्धः इति ।
स च विशेष्यासिद्धः स्वरूपासिद्धप्रभेदः ( त० भा० पृ० ४६ )। विशोका-(सिद्धिः ) सर्वभावाधिष्ठातृत्वादिरूपा ( सर्व० सं० पृ०
३८५ पात०)। विश्वासः-१ वश्वकत्वाभावसंभावना। यथा न विश्वसेदविश्वस्तम् (पश्चत०) - इत्यादौ । २ इदमित्थम् इत्याकारश्चित्तवृत्तिविशेषः इत्येके वदन्ति । विषयः-१ विषयतावान् । यथा अयं घटः इति ज्ञाने घटत्वम् विषयः ।
जगत् प्रमेयम् इति ज्ञाने प्रमेयत्वेन जगद्विषयः । विषयता चात्र विषयः इत्याकारकंप्रतीतिसाक्षिकः स्वरूपसंबन्धविशेषः (न्या० म० ख० १ पृ० ४ )। घटो ज्ञानविषयः पटो ज्ञानविषयः इत्यनुगतप्रतीतिसाक्षिको ज्ञानविषयस्वरूपसंबन्धविशेषः इत्यर्थः ( त० प्र०)। अत्र ज्ञानविषयत्वं च ज्ञानसंबन्ध एव इति । इयं विषयता त्रिविधा विशेष्यता प्रकारता संसर्गता चेति । यथा अयं घटः इति प्रत्यक्षे घटत्वे प्रकारता इदमर्थे विशेष्यता समवायादौ संबन्धे च संसर्गता (कु० ४) (त० प्र०) इति । विषयता च पदार्थान्तरमेव । तथा च विषयता विषयिता च न स्वरूप
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org