________________
७९०
न्यायकोशः। विशेषविधिः-सामान्यविशेषयोर्मध्ये विशेषे विधानम् । यथा ब्राह्मणेभ्यो
दधि दीयताम् कौण्डिन्याय तक्रम् इत्यत्र कौण्डिन्यस्य ब्राह्मणविशेषत्वेन तद्विषये दधिदानापवादेन तक्रदानविधिर्विशेषविधिर्भवति । अत्रोच्यते
अल्पः स्याद्विषयो यस्य स विशेषविधिर्गतः ( व्या० का० ) इति । विशेषसमः—(जातिः) धर्मेणैकेन केषांचिदविशेषप्रसञ्जनम् । साधन
प्रतिबन्धाय स विशेषसमो मतः॥(ता० र० परि० २ श्लो० १२१)। अत्रापेक्षणीयोदाहरणादिकं तु अविशेषसमः इति शब्दव्याख्याने ( पृ० ९५ ) यन् प्रदर्शितम् तदेवात्र ग्राह्यम् । अत्र धर्मेणैकेनेत्युक्तश्लोके
अविशेषसमः इत्यपि पाठः। विशेषितम्-१ विशिष्टम् । यथा याप्यते ग्राममजा इत्यादौ स्वनिर्वाह्य
कर्तृतानिरूपकत्वसंबन्धेन व्यापारविशेषितधात्वर्थः कर्तृत्वेन्वेति ( ग० व्यु० का० २ पृ० ४८ ) इत्यादौ विशेषितशब्दस्यार्थो विशिष्टं भवति ।
२ भेदितम् । ३ विशेषयुक्तम् । विशेष्यः-विशेष्यतावान् । यथा भूतले घटो नास्ति इति प्रत्यक्षे घटा
भावो विशेष्यः । अत्र विशेष्यता च स्वरूपसंबन्धावच्छिन्नाधाराधेयभावः संनिकर्षविशेषः (नील० १ पृ० १८)। स्वरूपसंबन्धावच्छिन्नाधेयतासंसर्गावच्छिन्नप्रकारतानिरूपितविशेष्यता इति तु वयं ब्रूमः । यथा वा नीलो घटः इत्याकारकशाब्दबोधे घटो विशेष्यः । अत्र इयं विशेष्यता केनचिदपि संबन्धेनावच्छिन्ना न भवति इति वदन्ति । विशेष्यता चात्र तत्तज्ज्ञानीयो यत्किंचित्प्रकारतानिरूपितः संसर्गताभिन्नो विषयताविशेषः इति केचित् । भासमानवैशिष्ट्यानुयोगित्वमिति संप्रदायः ( कु० ४ )। अत्र वैशिष्ट्यं च संबन्धविशेषः । अत्रेदमवधेयम् । मध्यवर्तिविषयतयोरैक्यमेव इति जगदीशचक्रवर्तिनः पक्षः । मध्यवर्तिविषयतयोर्भेद एवेति गदाधरभट्टाचार्याणां पक्षः । यथा हि दण्डवान् पुरुष इत्यत्र पुरुषे दण्डः प्रकारः दण्डे च दण्डत्वं प्रकारः इति स्थितिः । एवं च दण्डत्वनिष्ठाकारतानिरूपिता विशेष्यता पुरुषनिष्ठविशेष्यतानिरूपिता प्रकारता च एतद्वयं दण्डे तिष्ठति । तथा च मध्यवर्तिनोस्तयोर्द्वयोर्विषयतयोरक्यम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org