________________
७८९
न्यायकोशः। वर्तकम् विशेषणम् । यथा पुरुषादौ वर्तमानकालावच्छेदेन विद्यमानो दण्डादिर्विशेषणम् ( ग० व्यु० का० ३ पृ० ९२ )। यथा वा यदा देवदत्तगृहे काकवत्ता तदा काको विशेषणम् (वै० उ० ७।२।८ )। अयं भावः। यत्राश्रये यत्कालीना वृत्तिः प्रत्याय्या तत्कालीनतदधिकरणवृत्तिर्विशेषणम् । अन्यदुपलक्षणम् । एवं च काककालीनगृहव्यावृत्तिपरे प्रयोगे काको विशेषणमेव । सामान्यतो गृहविशेषव्यावृत्तिपरे प्रयोगे तु उपलक्षणमेव सः इति निष्कर्षः ( ५० च० पृ० ५० )। विशेषणं त्रिविधम् व्यावर्तकम् विधेयम् हेतुग चेति । तत्राद्यम् नीलो घट इत्यादौ नीलः । द्वितीयं यथा पर्वतो वह्निमानस्ति इत्यादौ वह्निर्विधेयः । यथा वा न्यक्कारो ह्ययमेव मे यदरयः ( हनुमन्नाट० ) इत्यादौ न्यक्कारो विधेयः । तृतीयं च स कोचकर्मारुतपूर्णरन्धैः कूजद्भिरापादितवंशकृत्यम् (रघु० २।१२) इत्यादौ मारुतपूर्णरन्ध्रत्वं हेतुगर्भ विशेषणम् । यथा वा
सुरापः पतति इत्यादी सुरापानं हेतुगर्भ विशेषणम् । विशेषणविशेष्यभावः-१ ( इन्द्रियार्थसंनिकर्षः ) स्वरूपसंबन्धावच्छिन्ना
धाराधेयभावः ( नील० १ पृ० १८)। यथा घटाभाववद्भूतलम् इत्याद्यभावप्रत्यक्षे कारणभूतो विशेषणविशेष्यभावः संनिकर्षः । अत्राधिकं तु इन्द्रियार्थसंनिकर्षशब्दव्याख्यानावसरे संपादितम् तत्र दृश्यम् । २ विषयताविशेषः । यथा दण्डी पुरुषः इति शाब्दबोधे दण्डपुरुषयोविशेषणविशेष्यभावः । अत्र विग्रहः विशेषणं च विशेष्यं च विशेषणविशेष्ये । तयोर्भावः इति । निरूप्यनिरूपकभावापन्नं विशेषणत्वं
विशेष्यत्वं चेत्यर्थः। विशेषणासिद्धः-(हेत्वाभासः) यो हेतुः स्वघटकविशेषणविशिष्टः सन्पक्षे
न तिष्ठति न सिद्ध्यति च सः । यथा शब्दो नित्यः द्रव्यत्वे सत्यस्पर्शत्वात् इत्यत्र हेतुर्विशेषणासिद्धः । अत्र द्रव्यत्वविशिष्टास्पर्शत्वं हेतुः । स च शब्दे नास्त्येव । अस्पर्शत्वरूपविशेष्यस्य शब्दे सत्त्वेपि द्रव्यत्वरूपविशेषणस्य बाधात् इति बोध्यम् । अत्र विशेषणेनासिद्धः इति विग्रहः। स च विशेषणासिद्धः स्वरूपासिद्धप्रभेदः ( त० भा० पृ० ४६ )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org