________________
७८८
न्यायकोशः। संबन्धरूपः संनिकर्षविशेषः ( नील० १ पृ० १९ ) (मू० म० १)। इयमभावप्रत्यक्षे हेतुर्भवति इति ध्येयम् । यथा घटाभाववद्भूतलम् इति चाक्षुषप्रत्यक्षे हेतुभूतो भूतलांशे घटाभावस्य विशेषणतारूपः संनिकर्षः। अत्र अभावस्य स्वोपरक्तबुद्धिजनकत्वं यत्स्वरूपम् तदेव विशेषणत्वम् इति ज्ञेयम् ( त० भा० पृ० २० )। सा च विशेषणता पुनः द्विविधा इन्द्रियविशेषणता इन्द्रियसंनिकृष्टविशेषणता च । आद्यया शब्दाभावो गृह्यते । अन्त्यया भूतलादौ घटाभावो गृह्यते ( न्या० म० १)। स्वरूपसंबन्धावच्छिन्नाधेयतारूपा वेयं विशेषणता (नील० १ पृ० १८)। यथा नैयायिकमते विशेषणतया समवायस्य प्रत्यक्षम् इत्यादौ विशेषणता। वैशेषिकमते तु समवायो न प्रत्यक्ष इत्यन्यत् । द्वितीया विशेषणता यथा नीलो घट इत्यादौ नीलत्वे विशेषणता। इयं विशेषणता तु प्रकारताख्यो विषयताविशेषः । अथ वा तत्पदजन्यबोधविषयत्वेन शक्तिविषयत्वम् ( दि० ४ )। यथा दण्डवान् पुरुषोस्तीत्यादौ दण्डस्य विशेषणता । अत्रेदमधिकं विज्ञेयम् । विशेषणतावच्छेद्रकं तु विशेषणे यद्विशेषणम् तत् (मु०)। यथा दण्डवान्पुरुष इत्यत्र दण्डत्वं विशेषणतावच्छेदकम् इति । अत्र व्युत्पत्तिः विशिष्यते भिद्यते अनेन (ल्युट ) इति विशेषणम् भेदकम्। व्यावर्तकम् प्रकारो वा विशेषणं भवति । तत्र प्रत्याय्यव्यावृत्त्यधिकरणतावच्छेदकं व्यावर्तकम्। समुदायार्थस्तु यद्व्यावृत्त्यधिकरणतावच्छेदकं तदेव तत्र विशेषणम् इति । व्यावृत्तिरन्योन्याभावः (मु० म० १ पृ०८३२)। दण्डी पुरुषः इति ज्ञानानन्तरं दण्डवत्यदण्डव्यावृत्तिरवगम्यते इति प्रत्याय्यव्यावृत्त्यधिकरणता पुरुषस्य दण्डेनावच्छिद्यते इति दण्डो विशेषणम् । तदाहुराचार्याः सदसद्वा समानाधिकरणं व्यवच्छेदकं विशेषणम् (चि० १ पृ० ८३४) इति। अथ वा विवक्षितान्वयप्रतियोगितावच्छेदकम् । यथा दण्डिनमानयेत्यादौ दण्डो विशेषणम् । यदन्विततया ज्ञात एव विशेष्ये तात्पर्यविषयेतरान्वयधीः तद्व्यवच्छेदकम् । विशेष्यान्वयिना यस्यावश्यमन्वयः तदवच्छेदकम् : यड्यावर्तकं विशेष्यान्वयिनान्वीयते तत् । तात्पर्यविषयान्वयप्रतियोगी धर्मः । उद्देश्यान्वयप्रतियोगी धर्मो वा (चि० १ पृ० ८३४-८३८ ) । अत्रेदं बोध्यम् । विद्यमानं सद्ध्या
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org