________________
न्यायकोशः।
७८७ विशेषकः-१ इतरव्यावर्तकधर्मः (गौ० वृ० ३।२।३८ ) । यथा गवादेः
सास्नादिमत्त्वं विशेषकः । २ एकवाक्यतापन्नं श्लोकत्रयं विशेषकम् इति कवय आहुः। ३ ललाटे अलंकारभूतस्तिलकः भूषणं च इति काव्यज्ञा
वदन्ति (माघ० ३।६३ )। विशेषगुणत्वम्- [क] द्रव्यविभाजकोपाधिद्वयसमानाधिकरणावृत्तिगुण
वृत्तिजातिमत्त्वम् (त० दी० ४ पृ० ३९)। तदर्थश्च पृथिवीत्वजलत्वाद्यात्मकं यद्रव्यविभाजकोपाधिद्वयम् प्रत्येकं तत्समानाधिकरणाः द्वित्वद्विपृथक्त्वसंयोगादयः तदवृत्तिजातिमद्गुणत्वम् इति । तथा च विशेषगुणेषु लक्षणसमन्वयः क्रियते । रूपादिषु चतुर्पु तादृशलक्षणघटकजातिम् रूपत्वादिकामादाय सांसिद्धिकद्रवत्वे च द्रवत्वत्वावान्तरजातिम् स्नेहादिषु दशसु स्नेहत्वादिकाम् भावनायां संस्कारत्वावान्तरजातिं चादाय लक्षणसमन्वयः । अत्र प्रवदन्त्यभिज्ञा निष्कृष्टार्थम् । यद्रूपावच्छिन्नसमानाधिकरणं यत्किचिद्रव्यविभाजकोपाधिद्वयम् तद्भिन्ना स्थितिस्थापकवृत्तिभिन्ना च या जातिः तद्वत्त्वे सति गुणत्वम् इति । तेन एकत्वादिसंख्यायाम् परिमाणादौ च नातिव्याप्तिः ( नील० गु० पृ० ३९ ) इति। विशेषगुणाश्च षोडश रूपम् रसः गन्धः स्पर्शः सांसिद्धिकद्रवत्वम् स्नेहः शब्दः बुद्धिः सुखम् दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः अधर्मः भावना चेति ( भा० ५० गु० श्लो० ९१-९२ )। [ख] भावनान्यो यो वायुवृत्तिवृत्तिस्पर्शावृत्तिधर्मसमवायी तदन्यत्वे सति गुरुत्वाजलद्रवत्वान्यगुणत्वम् । अत्रत्यपदानां प्रयोजनानि कथ्यन्ते। जात्यादावतिव्याप्तिवारणाय गुरुत्वाजलेत्यादि विशेष्यदलम् । गुरुत्वनैमित्तिकद्रवत्वयोर्वारणाय गुरुत्व इत्यादि। सांसिद्धिकद्रवत्वसंग्रहाय अजल इति । संयोगादिवारणाय सत्यन्तं दलम् । भावनायामव्याप्तिवारणायाद्यम् अन्यान्तं सत्यन्तघटकसमवायिविशेषणम् । सत्तादिकमादायासंभववारणाय स्पर्शसंग्रहाय च स्पर्शावृत्ति इति ( दि० गु० पृ० १९३ )। विशेषणम्-१ विशेषणतावत्। विशेषणता च द्विविधा । तत्र प्रथमा यथा
घटाभाववद्भूतलमित्यत्र घटाभावे विशेषणता । इयं विशेषणता च स्वरूप
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org