________________
७८६
न्यायकोशः ।
1
तु सामान्यशून्यत्वे सति सामान्यभिन्नत्वे च सति समवेतत्वम् । यद्वा नित्यसमवेतवृत्तिजन्यसमवेतावृत्तिपदार्थविभाजकोपाधिमत्त्वम् ( त० व० ) । एकमात्रसमवेतत्वे सति सामान्यशून्यत्वं वा ( प० मा० ) । स्वतो व्यावृत्तत्वं वा (वाक्य० ) ( त० प्र० १ ) | स्वतो व्यावर्तकत्वं वा । अत्र व्यावर्तकत्वं नाम व्यावृत्तिजनकत्वम् । व्यावृत्तिश्चेत्तरभेदः तज्ज्ञानं वा ( सि० च० १ पृ० ३ ) । स्वतो व्यावर्तकत्वं च स्वभिन्नलिङ्गजन्यस्व विशेष्यक स्वसमानजातीयेतर भेदानुमित्यविषयत्वम् ( दि० १११ पृ० ३७ ) । अथ वा स्वेन रूपेण भेदानुमापकत्वम् । यथा एकपरमाणौ परमाण्वन्तरभेदसाधने विशेषस्य तत्तद्व्यत्तित्वेनैव हेतुत्वेन स्वतो व्यावर्तकत्वम् । अत्र तु तत्तद्व्यक्तित्वं च तादात्म्य संबन्धेन सैव व्यक्तिः ( राम० ) । नव्यनैयायिकाः भट्टकुमारिलः प्राभाकराः मध्यमतानुयायिवेदान्तिनश्च एतादृशविशेषपदार्थं नाङ्गीचक्रुः । यथैव विशेषाणां स्ववृत्तिधर्मं विना व्यावृत्तत्वं तथैव नित्यद्रव्याणामपि इति ( दि० १ पृ० ३७ ) ( प्र० प० पृ० ११ ) ( ता० र० लो० ५५ ) । २ विशेषकशब्दस्य अर्थ - वदस्यार्थोनुसंधेयः । यथा पुरुषत्वव्याप्यकरादिमान् इत्यादौ पुरुषत्वादेविशेषः करादिधर्मः । ३ प्रभेदशब्दवदस्यार्थोनुसंधेयः । ४ व्याप्यधर्मः (वै० ११२ ।५ ) । यथा सत्तामपेक्ष्य द्रव्यत्वम् । द्रव्यत्वमपेक्ष्य च पृथिवीत्वं विशेष: ( व्याप्यधर्मः) । ५ वहूतिधर्मः । यथा पदार्थविशेषः ( मू०म० १ ) इत्यादौ । अत्र पदार्थविशेषः इत्यस्य पदार्थवृत्तिधर्मः इत्यर्थो ज्ञेयः । स च पदार्थत्वव्याप्यः । ६ निश्चायको साधारणधर्मः । यथा विशेषादर्शनं कोटिद्वयस्मरणं च संशयमात्र हेतुः इत्यादौ स्थाणुत्वनिश्चायकं वक्रकोटरादिमत्त्वम् पुरुषत्वनिश्चायकं करादिमत्त्वं च विशेषः ( सि० ० च० पृ० ३४ ) । ७ आधेयोनिर्वचनीयश्च कश्चिद्धर्मविशेषः ( अतिशय: ) । यथा अङ्करजननयोग्यबीजादौ विशेषः इति केचित्तत्त्व - व्यवस्थापका आहुः | अत्रेदं विज्ञेयम् । कुसूलस्थबीजादिभिर्नाङ्करो - त्पत्तिः । अतः कृष्टक्षेत्रादावुप्रवीजादौ सलिलपवनादियोगेन कश्चिद्विशेषोवश्यमाधेयः इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org