________________
न्यायकोशः।
७८५ त्तेभ्यः प्रत्याधारम् अयमस्माद्विलक्षणः इति व्यावृत्तिप्रत्ययः देशकालविशिष्टे च परमाणौ स एवायम् इति प्रत्यभिज्ञानं च भवति यतः तेन्या विशेषा इति । एते च विशेषाः नित्यद्रव्याणां परस्परभेदसाधकाः (नील. पृ० ९४ )। अथान्त्यविशेषेष्विव परमाणुषु कस्मान्न स्वतः एव व्यावृत्तिप्रत्ययः प्रत्यभिज्ञानं वा कल्प्यते इति चेत् न । तादाम्यात् । इह तादाम्यकल्पनानिमित्तप्रत्ययो भवति । यथा श्वमांसादीनां स्वत एवाशुचित्वम् तद्योगादन्येषाम् । तथेहापि तादात्म्यादन्त्यविशेषेषु स्वत एव व्यावृत्तिप्रत्ययः । तद्योगात् परमाण्वादिष्विति ( प्रशस्त० पृ० ६४-६५ )। अत्यन्तव्यावृत्तिहेतुरित्यस्य अयमस्माद्व्यावृत्तः इति व्यावृत्तिबुद्धिमानहेतुरित्यर्थः इति कौमुदीकाराः (त० को०)। ते खल्वत्यन्तव्यावृत्तिहेतुत्वाद्विशेषा एव (प्रशस्त० पृ० २ ) इति भाष्यम् । अत्र कन्दलीकार आह । खलुशब्दो निश्चये। नित्यद्रव्यवृत्तयो ये विशेषास्ते विशेषा एव निश्चिताः। न तु सामान्यान्यपि भवन्तीत्यर्थः । अत्यन्तं सर्वदा व्यावृत्तेरेव स्वाश्रयस्येतरस्माद्व्यवच्छेदस्यैव हेतुत्वात् कारणत्वात् ( न्या० क० पृ० १४ ) इति। [ग] विशेषो नामान्योन्याभावविरोधिसामान्यरहितः समवेतः (सर्व० सं० पृ० २१७ औ०)। विशेषपदार्थस्वीकारस्यावश्यकत्वमिदानीं प्रदर्श्यते । घटादीनां सावयवपदार्थानां कपालसमवेतत्वादिकं पटादिभेदकमस्ति । परमाणूनां तु निरवयवत्वात्परस्परभेदकं न किंचिदस्ति । अतोनायत्या विशेष आश्रयितव्यः । अथ वा विशेषानभ्युपगमे समानजातिगुणकर्मवतां परमाणूनां मिथो व्यावृत्तिबुद्धिः न स्यात् । तादृशी बुद्धिस्तु समानजातिगुणकर्मकाः परमाणवः अन्योन्यव्यावर्तकधर्मसंबन्धिनः व्यावृत्तज्ञानविषयत्वात् द्रव्यत्वाद्वा गवादिवत् इत्यानुमानिकी ज्ञेया (न्या० ली० पृ० ५३ )। व्यावृत्तिबुद्ध्यभावस्येष्टापत्तौ योगिनोपि तादृशपरमाणूनां ज्ञानसंकरः स्यात् इत्यतस्तद्व्यावृत्तिबुद्ध्यर्थं विशेषोङ्गीकर्तव्यः (त० कौ० पृ० २८) (प्र० प्र०) इति । स च विशेषः शब्दसमवायिकारणतावच्छेदकतयापि सिध्यति ( सि० च० )। तथा ह्यनुमानम् शब्दसमवायिकारणता किंचिद्धर्मावच्छिन्ना कारणतात्वात् दण्डनिष्ठघटकारणतावत् इति । स च धर्मो विशेष एव । विशेषलक्षणं ९९ न्या. को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org