________________
७८४
न्यायकोशः।
ज्ञानादीनामत्यन्तव्यपोहो विशुद्धिः ( सर्व० सं० पृ० १६४ नकु० )। [ग] धर्मज्ञास्तु दोषराहित्यं विशुद्धिरित्याहुः । २ शोधनम् (प्रायश्चित्तम् ) (कुल्लू० )। यथा इयं विशुद्धिरुदिता ( मनु० अ० ११ श्लो० ८९)
इत्यादी इत्याहुः । अधिकं तु शुद्धिशब्दे दृश्यम्। विशृङ्खलत्वम्-पार्थक्यम् । यथा घटवद्भूतलमित्यादौ घटः इति भूतलम्
इति चोपस्थित्योः परस्परं निरूप्यनिरूपकभावानापन्नविषयतावत्त्वेन
तत्तदर्थविषयकत्वाद्विशृङ्खलत्वम् । विशेषः-१ ( पदार्थः ) [क] अन्योन्याभावविरोधिसामान्यरहितः
समवेतः पदार्थविशेषः ( सर्व० पृ० २१७ औलू०)। [ख] जातिरहितत्वे सति नित्यद्रव्यमात्रवृत्तिः । तथा चोक्तम् अजातिरेकवृत्तिश्च विशेष इति शिष्यते ( ता० र० श्लो० ५३ ) इति । एकद्रव्यः स्वभावसन् (न्या० ली० पृ० ५ ) इति न्यायलीलावतीकाराः। स च अन्त्यो नित्यद्रव्यसमवेतः । अन्ते अवसाने वर्तत इत्यन्त्यः । तदपेक्षया विशेषो नास्तीत्यर्थः । एकमात्रवृत्तिरिति फलितोर्थः (मु० १११ पृ० ३७ )। किंच स विशेषः अत्यन्तव्यावृत्तिहेतुः ( भा० ५० ) ( त० सं० )। तथा हि । घटादीनां व्यणुकपर्यन्तानां तत्तदवयवभेदात्परस्परं भेदः सिद्ध्यति । परमाणूनां परस्परं भेदको विशेष एव । स तु स्वत एव व्यावृत्तः । तेन तत्र विशेषान्तरापेक्षा नास्ति इति भावः ( मु. १ )। अत्र प्रयोगः एतद्विशेषस्तद्विशेषाद्भिद्यते तादाल्येनैतद्विशेषात् इति । एवम् स्वतोव्यावर्तकत्वानुमानप्रयोगोपि विज्ञेयः ( सि० च० पृ० ३)। सूत्रे चोक्तम् अन्यत्रान्त्येभ्यो विशेषेभ्यः ( वै० १।२।६ ) इति । अन्ते भवा अन्याः । स्वाश्रयविशेषत्वाद्विशेषाः । विनाशारम्भरहिते नित्येष्वण्वाकाशकालदिगात्ममनःसु प्रतिद्रव्यमेकैकशो वर्तमाना अत्यन्तव्यावृत्तबुद्धिहेतवः । यथास्मदादीनां गवादिष्वश्वादिभ्यस्तुल्याकृतिगुणक्रियावयवसंयोगनिमित्ता प्रत्ययव्यावृत्तिदृष्टा । यथा गौः शुक्लः शीघ्रगतिः ककुद्मान् महाघट इति तथास्मद्विशिष्टानां योगिनां नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु मुक्तात्ममनःसु चान्यनिमिनासंभवात् येभ्यो निमि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org