________________
७८२
न्यायकोशः। तदा जीवस्य जगत्कर्तृत्वं नास्ति इत्यादि ज्ञेयम् । मोक्षे भगवत्साम्यमित्यत्र निरञ्जनः परमं साम्यमुपैति (मु० ३।१।३) इति श्रुतिः प्रमाणम् । मध्वमते तु अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः । आदघ्नास उपकक्षास उत्वे ह्रदा इव स्नात्वा उत्वे ददृशे (ऋग०संहि० मण्ड० १०७१।७ ) इति श्रुतिः प्रमाणम् । केचित्तु प्रकृतिविशिष्टस्य ब्रह्मणः अद्वयत्वम् शरीरशरीरिणोर्भेदविशिष्टाभेदो वा विशिष्टाद्वैतशब्दार्थ
इति मन्यन्ते । विशिष्टान्तराघटितत्वम्-[क ] अनुमितिप्रतिबन्धकतायां यादृशरूपाव
च्छिन्नविषयकत्वमवच्छेदकम् ( अनतिरिक्तवृत्ति ) तादृशं यत् स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकम् तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं यत् स्वम् तदवच्छिन्नत्वम । यथा ह्रदो धूमवान्वङ्गेरित्यादौ व्यभिचारस्य बाधादिरूपविशिष्टान्तराघटितत्वम् । विशिष्टान्तराघटितत्वरूपविशेषणप्रयोजनं च गादाधरीयद्वितीय हेत्वाभाससामान्यलक्षणस्य धूमवान्वह्नः इत्यादिस्थले प्रमेयत्वविशिष्टव्यभिचारादौ (प्रमेयत्वविशिष्टधूमाभाववद्वृत्तिवह्नौ) अतिव्याप्तिवारणरूपं बोध्यम् । स्वावच्छिन्नेत्यत्र यद्रूपावच्छिन्ने लक्षणं संगमनीयम् तदेव स्वपदार्थः । ह्रदो धूमवान्वहे. रित्यादौ धूमाभाववद्वृत्तिवह्नित्वं व्यभिचारः। बाधस्तु धूमाभाववद्भदः। तथा चात्र व्यभिचारत्वावच्छिन्नाविषयकत्वं बाधविषयकप्रतीतौ बाधत्वावच्छिनाविषयकत्वं च व्यभिचारविषयकप्रतीतावस्ति इति बाधत्वं व्यभिचरत्वावच्छिन्नाविषयकप्रतीतिविषयावच्छेदकम हृदो धूमवात् इत्यनुमितिनिरूपितप्रतिबन्धकतायामनतिरिक्तवृत्तित्वरूपावच्छेदकतावच्च भवति तादृशबाधत्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं स्वं ( व्यभिचारत्वम् ) भवति । व्यभिचारत्वावच्छिन्नत्वं तु व्यभिचारे वर्तत इति लक्षणसमन्वयो बोध्यः । प्रमेयत्वविशिष्टव्यभिचारादौ तु शुद्धव्यभिचाररूपविशिष्टान्तरघटितत्वेन तादृशलक्षणाभावान्नातिव्याप्तिश्च ( ग० २ हेत्वा० सामा०
पृ० १३ )। [ख] केचित्तु स्वसमानाधिकरणहेत्वाभासविभाजकरूप.. समानाधिकरणं यत् स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं तादृशं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org