SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः । 1 ७८१ वैचित्र्येण उद्देश्यतावच्छेदकविधेययोर्धर्मिपारतच्येण परस्परं प्रयोज्यप्रयोजकभावेनान्वयः । यथा धनवान् सुखी इत्यत्र धनप्रयोज्यत्वस्य सुखेन्वयः । सुरापः पतति इत्यत्र च सुरापानस्य पतने प्रयोज्यत्वेनान्वयः ( ग० सव्य ० ) इति । ५ क्वचित् विशिष्टज्ञानम् । विशेषणवद्विशेष्यविषयकं ज्ञानम् इत्यर्थः ( चि० १ पृ० ८२१ ) । यथा अयं दण्डी इति ज्ञानम् । अत्र ज्ञाने च इदंपदार्थविशेष्यांशे दण्डात्मकविशेषणप्रतियोगिकसंबन्धः संसर्गतया भासते विशेषणज्ञानं कारणं च भवति इति विज्ञेयम् । विशिष्टाद्वैतम् — सूक्ष्मचिदचिदात्मकशरीरविशिष्टस्य कारणस्य परमात्मनः स्थूल चिदचिदात्मकशरीर विशिष्टस्य कार्यस्य परमात्मनश्चैक्यम् । यथा रामानुजमते विशिष्टाद्वैतम् । अत्र विशिष्टयोरद्वैतम् इति षष्ठीतत्पुरुषो ज्ञेयः । द्वैतविशिष्टमद्वैतम् इत्यन्य आहुः । अत्र नियम्यनियामकभावेन शरीरशरीरिभावो विज्ञेयः । तत्र चिदचिदात्मकं शरीरं नियम्यम् । तदन्तर्यामी परमात्मा तन्नियामक: । अत्र श्रुतिः यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति स त आत्मान्तर्याम्यमृतः ( शतप० बृह० १४।६।७।७ ) इत्यादिः | अत्रेदं विज्ञेयम् । रामानुजाचार्यस्य जन्म द्रविडदेशे भूतपुरीत्यपरायां प्रेमधुलाख्यायां (पेरंबुदूर) पुरि एकोनपञ्चाशदधिके सहस्रे ( शाके १०४९ ) वर्षे समजनि । तस्य पिता केशवभट्टः । माता कान्ति मती । मातुलो यादवप्रकाशः । स एव विद्यागुरुश्च इति । अत्र श्रूयते शापवशाच्छूद्रजन्म प्राप्तेन शठकोपनाम्ना ( नम्मालबार ) द्रविडेन द्रविड - भाषया वेदान्तप्रबन्धा विरचिताः । ततस्तान् प्रबन्धाननुरुध्य बोधायनाख्यद्रविड ब्राह्मणकृतां ब्रह्मसूत्रवृत्ति च सहकृत्य गीर्वाणभाषया ब्रह्मसूत्रस्य श्रीभाष्यमकारि रामानुजाचार्येण । रामानुजमते चित् जीवः १ अचित् जडः २ ईश्वरः नियन्ता परमात्मा ३ इति त्रयः पदार्थाः । ईश्वरो जगत उपादानं निमित्तं च । सत्कार्यवादः । परिणामवादः । मोक्षदशायामपि जीवब्रह्मणोर्भेदः पारमार्थिकः । तथापि परमभगवत्साम्यरूपमोक्षदशायां जीवब्रह्मणोरानन्दतारतम्यं यथा मध्यमतेस्ति तथा नास्ति इति । तथापि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy