________________
७८०
न्यायकोशः। द्वितीये रूपे स्पर्शो विशेषणम् । तथा च स्पर्शात्मकविशेषणस्य वायौ सत्त्वेपि विशेष्यभूतस्य रूपस्याभावात् स्पर्शविशिष्टरूपस्याप्यभावो मन्तव्यः । तृतीये घटत्वे रूपं विशेषणम् । तथा च विशेषणस्य रूपस्य विशेष्यस्य घटत्वस्य च वायावभावेन रूपविशिष्टघटत्वस्याप्यभावो मन्तव्यः । २ विशेषयुक्तः । यथा संज्ञा कर्म त्वस्मद्विशिष्टानां लिङ्गम् ( वै० २।१।१८) इत्यादावस्मद्विशिष्टा ईश्वरमहर्षयः । । विशिष्टविशेषणकज्ञानम्-१ विशेषणवद्विशेष्यस्य धर्मिणि वैशिष्टय
विषयकं ज्ञानम् । यथा दण्डवान् पुरुषः इति ज्ञानम् । तहिविधम् विशेषणोपलक्षितप्रतियोगिकवैशिष्ट्यावगाहि विशेषणविशिष्टप्रतियोगिकवैशिष्ट्यावगाहि चेति । तत्राद्ये विशेषणज्ञानासंसर्गाग्रहयोरेवापेक्षा न तु विशेषणतावच्छेदकप्रकारकधियोप्यपेक्षा (ग० बाध० )। द्वितीये तु विशेषणतावच्छेदकप्रकारकधियोपेक्षा । २ क्वचित् विशेष्ये यद्विशेषणम् तत्रापि विशेषणानन्तरम् इति रीत्या जायमानं ज्ञानं भवति । यथा दण्डवान् पुरुषः इति ज्ञानम् । अत्र ज्ञाने पुरुषांशे दण्डः दण्डे च दण्डत्वम् विशेषणतया भासते न तु दण्डत्वं पुरुषांशे विशेषणतावच्छेदकतया भासते। अत्र विशृङ्खलोपस्थितिः प्रयोजिका इति विज्ञेयम् । ३ कचित् एकत्र द्वयम् इति रीत्या जायमानं ज्ञानं भवति । यथा दण्डवान् पुरुषः इति ज्ञानम् । अत्र ज्ञाने च एकस्यां व्यक्तौ ( पुरुषे ) पुरुषत्वं दण्डश्च एतदुभयं विशेषणतयैव भासते। न तु विशेषणविशेष्यतावच्छेदकभावेन इति । अत्र विशेषणत्वेनोभयोपस्थितिः प्रयोजिका इति बोध्यम्। ४ कचित् विशिष्टवैशिष्टयावगाहि ज्ञानं भवति । अत्र ज्ञाने च विशेषणतावच्छेदकप्रकारकं ज्ञानं कारणं भवति इति ध्येयम् । यथा दण्डवान् पुरुषः इति ज्ञानम् । अत्र च दण्डत्वात्मकविशेषणावच्छिन्नप्रतियोगिकवैशिष्ट्याख्यः संबन्धः संसर्गतया पुरुषांशे भासते। इदमेव ज्ञानं विशिष्टविशेषणकज्ञानप्रभेदः विशेषणविशिष्टप्रतियोगिकवैशिष्ट्यावगाहि भवति
विशेषणोपलक्षितप्रतियोगिकवैशिष्ट्यावगाहिज्ञानाद्भिद्यते च इति बोध्यम् । । अत्रेदं बोध्यम् । विशिष्टवैशिष्ट्यावगाहिशाब्दबोधे त्वयं भेदः । व्युत्पत्ति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org