________________
न्यायकोशः।
७७६० विवेकः-१ [क] पृथक्त्वेन ज्ञानम् । यथा नीरक्षीरविवेकः । [ख]
विशेषरूपेण ज्ञानम् इति केचिदाहुः । [ग] अन्योन्यधर्मव्यावर्तनेन याथार्थेन वस्तुस्वरूपावधारणम् । यथा सांख्यमते प्रकृतिपुरुषयोर्भदज्ञानम् । २ विचारः । ३ विवेको नामादुष्टादन्नात्सत्त्वशुद्धिः ( सर्व०
सं० पृ० १२४ रामानु० )। विशिष्टद्वयाघटितत्वम् - यादृशविशिष्टविषयकनिश्चयविशिष्टयादृशविशिष्ट
विषयकनिश्चयत्वं प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्ति भवति तादृशविशिष्टद्वयाघटितत्वम् । यथा ह्रदो वह्निमान्धूमादित्यादौ वह्नयभाववदात्मकबाधस्य जलावच्छिन्नवह्नयभाव जलवद्भद एतद्विशिष्टद्वयाघटितत्वम् (ग० २ हेत्वा० सामा० पृ० ११ )। विशिष्टद्वयाघटितत्वरूपस्य विशेषणस्य प्रयोजनं च गादाधरीयद्वितीयहेत्वाभाससामान्यलक्षणे ह्रदो वह्निमानित्यादौ वह्नयभाववजलादिमद्वृत्तिजलवद्धदरूपविशिष्ट अलक्ष्येतिव्याप्तिवारणम् इति विज्ञेयम् । यद्रूपावच्छिन्नविषयकनिश्चयविशिष्टयद्रूपावच्छिन्नाविषयकयद्रूपावच्छिन्नविषयकनिश्चयत्वं स्वव्यापकत्व स्वाभाववद्वृत्तित्व एतदुभयसंबन्धेन स्वावच्छिन्नविषयताव्यापकप्रतिबन्धकताविशिष्टान्यज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतानतिरिक्तवृत्ति भवति तत्तद्रु'पावच्छिन्नाविषयकप्रतीतिविषयत्वं फलितोर्थः । तेन नातिव्याप्त्यव्याप्त्या
दयो दोषाः इत्यस्मद्गुरुचरणाः प्राहुः । विशिष्टम्-१ विशेषणवद्विशेष्यम् (चि० १)। यथा द्रव्यं गुणवदित्यादौ
द्रव्यं गुणविशिष्टम् । अत्रायं विशेषः। विशिष्टज्ञानं प्रति विशेषणज्ञानं कारणम्, इति कार्यकारणभावो नैयायिकसिद्धान्तसिद्धो ज्ञातव्यः । अत्रेदमधिकं ज्ञेयम् । विशिष्टाभावस्त्रिविधः विशेषणाभावप्रयुक्तः विशेष्याभावप्रयुक्त: उभयाभावप्रयुक्तश्चेति । तत्राद्यो यथा वायौ रूपविशिष्टस्पर्शस्याभावः । द्वितीयो यथा वायौ स्पर्शविशिष्टरूपस्याभावः । तृतीयो यथा वायौ रूपविशिष्टघटत्वस्याभावः इति । अत्र वैशिष्ट्यं च साहित्यं सामानाधिकरण्यं वा ज्ञेयम् । तत्राद्ये स्पर्श रूपं विशेषणम् । तस्य वायावभावात् स्पर्शसत्त्वेपि रूपविशिष्टस्पर्शस्याप्यभावो मन्तव्यः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org