________________
न्यायकोशः।
७७७ विवरणम्-१ [क] तत्समानार्थबोधकपदान्तरेण तदर्थकथनम् । यथा
पचति इत्यस्य पाकं करोति इति विवरणम् (मु० ४)। विवरणस्य शक्तिग्राहकत्वे प्रमाणमनुमानम् । तच्च यथा आख्यातपदं यत्नत्वावच्छिन्ने शक्तम् यत्नत्वावच्छिन्नशक्तकरोतिधातुप्रतिपादितार्थकत्वात् यद्यद्धर्मावच्छिन्नशक्तप्रतिपादितार्थकं भवति तत्तद्धर्मावच्छिन्ने शक्तं भवति पाकत्वविशिष्टशक्तपाकपदप्रतिपादितार्थकपचधातुवत् इति सामान्यतो दृष्टानुमानम् (त० प्र० ख० ४ पृ०७३)। [ख] पूर्वोच्चरितवाक्यस्योत्तरवाक्येनार्थकथनम् ( त० प्र० ख• ४ पृ० ७३ ) । २ ग्रन्थविशेषः। यथा
नागेशकृतं कैयटोपरि विवरणम् । विवर्तः–१ [क] अतात्त्विकोन्यथाभावः । स च अपरित्यक्तपूर्वरूपस्य
रूपान्तरप्रकारकप्रतीतिविषयत्वम् ( वै० सा० द० पृ० २)। यथा मायावादिमते परब्रह्मणि सर्वस्य जंगतो विवर्तः । [ख] पूर्वरूपापरित्यागेनासत्यनानाकारप्रतिभासः । यथा शुक्तिकायां रजतस्य रज्वां वा सर्पस्य प्रतीतिः ( अथर्वभाष्ये सायणः )। शिष्टं तु वादशब्दव्याख्याने दृश्यम् । [ग] स्वरूपापरित्यागेन रूपान्तरापत्तिर्विवर्तः ( सर्व० सं० पृ. ४२० शं० )। २ नृत्यम् इति नर्तका आहुः । ३ समुदायः इति
काव्यज्ञा आहुः ( वाच० )। विवसनः-( दिगम्बरः नास्तिकः ) अर्हन्नामको जिनः । तन्मते सप्त
पदार्थाः जीवः अजीवः आस्रवः संवरः निर्जरः बन्धः मोक्षश्च इति । संक्षेपतस्तु जीवाजीवाख्यौ द्वावेव पदार्थों । तयोरिममपरं प्रपश्चमाचक्षते। पश्चास्तिकाया नाम जीवास्तिकायः पुद्गलास्तिकायः धर्मास्तिकायः अधर्मास्तिकायः आकाशास्तिकायश्चेति । सर्वेषामप्येतेषामवान्तरभेदा बहुविधाः सन्ति विस्तरभयानोक्ताः इति । अत्र अस्तिकायशब्दः संकेतितः पदार्थवाची ( शारी० भा० टी० २।२।३३ )। अस्तीति कायते शब्द्यते इत्यस्तिकायः पदार्थः । एतन्मते जीवः शरीरपरिमाणः । मोक्षस्तु जीवस्योर्ध्वगमनमेव (शारीरकभाष्ये अ० २ पा० २ सू० ३३-३४)। सप्तभङ्गीनयस्तु स्याद्वादशब्दव्याख्यानावसरे संपादयिष्यते । अत्र शिष्टं तु नास्तिक इत्यादितत्तच्छन्दव्याख्याने दृश्यम् । १८ म्या०को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org