________________
७७६
न्यायकोशः। विरोधः। ६ विपरीतार्थकत्वम् । यथा विरोधे त्वनपेक्षं स्यात् असति ह्यनुमानम् ( जै० १।३।३ ) इत्यादौ औदुम्बर्याः सर्ववेष्टनं औदुम्बरी स्पृष्ट्वोद्गायेत् इति श्रुत्या विरुद्धम् ( शाब० भा० )। ७ अर्थालंकारविशेषः इत्यालंकारिका आहुः । ८ संवत्सरविशेषः इति ज्योतिषज्ञा
वदन्ति । ९ वैरम् इति काव्यज्ञा आहुः । विरोधित्वम्-[क] सहानवस्थायित्वम् ( दीधि० २ )। यद्येन सह न
प्रतीयते तत्तेन सह विरुद्धं यत् तत्त्वम् (न्या० सि० दी० पृ०५६)। [ख] एकसमयावच्छेदेनैकत्रावर्तमानत्वम् (ग० बाध० )। यथा घटघटाभावयोर्विरोधित्वम् । [ग] सहासंभवः । यथा तत्त्वज्ञानमिथ्याज्ञानयोर्विरोधः ( न्या० वा० १ पृ० २७)। [घ ] सहानवस्थान
नियमः ( त० व० पृ० १०० )। विरोधिपरामर्शः-(परामर्शः) तद्विपरीतव्याप्यवत्तानिर्णयः (ग०सत्प्र०)।
यथा ह्रदो वह्निमान्धूमादित्यादौ वयभावव्याप्यजलवान् हृदः इति परामर्शो विरोधिपरामर्शो भवति। ' विरोधिविषयता-[क] पक्षे साध्यवैशिष्ट्यावगाहित्वसाध्यव्याप्यहेतुवैशि
ट्यावगाहित्वोभयाभावप्रतियोगितावच्छेदककोटौ यद्रूपावच्छिन्नांशे यद्रूपावच्छिन्नवैशिष्टयावगाहित्वं निविष्टम् तद्रूपावच्छिन्नविषयतानिरूपिततद्रूपावच्छिन्नाभावतद्व्याप्यान्तरविषयता । [ख] साध्यवत्पक्षविषयताबहिर्भूतविषयता । यथा हृदो वह्निमानित्यादौ वह्नयभाववादविषयता भवति विरोधिविषयता साध्यवत्पक्षविषयताया निरासश्च भवति (ग० २ हेत्वाभाससामा० नि० पृ०२४)। इयं विषयता च गादाधरीये अत्र वदन्ति
इत्येवमुक्तो यः कल्पस्तादृशकल्पोक्तहेत्वाभासलक्षणघटिका इति विज्ञेयम्। विलक्षणम्-१ [क] विजातीयम् । [ख] विभिन्नम् । २ स्वच्छन्द
ताया निष्प्रयोजनस्थितिः । तदुक्तं भागुरिणा विलक्षणं मतं स्थानं यद्भवेनिष्प्रयोजनम् ( अमर० टी० ३।२।२ ) इति । ३ दानार्थ कल्पितकाश्चनपुरुषमूर्तियुतशय्याविशेषः ( शु० त० ) ( मत्स्यपु०)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org