SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। ७७५१ विरुद्धत्रिकद्वयम् – उपादेयत्वम् विधेयत्वम् गुणत्वं चेत्येकं त्रिकम् । उद्देश्यत्वम् अनुवाद्यात्वम् मुख्यत्वं चेत्यपरं त्रिकम् (जै० न्या० अ०१ पा० ४ अधि० ६)। विरुद्धत्वम्-१ ( हेतुदोषः) विपक्षमात्रस्पर्शित्वम् । साध्याभावव्याप्ति विरुद्धत्वम् इति परमार्थः (त० भा० ) ( वाक्य० )। व्याप्तिश्चात्र अन्वयव्याप्तिः पूर्वपक्षीया साध्यवदवृत्तित्वरूपा ( साध्यासामानाधिकरण्यम् ) इति प्राञ्चो मणिकारादय आहुः । नव्या दीधितिकारादयस्तु साध्याभावस्य व्याप्तिस्तु व्यतिरेकव्याप्तिः साध्यव्यापकाभावप्रतियोगित्वरूपा इत्याहुः ( नील० २ पृ० २५ ) ( दीधि० २ हेत्वाभा० पृ० १९७ )। अथ वा साध्यासामानाधिकरण्यादि । अत्रायमर्थः । साध्यासमानाधिकरणत्वं च साध्यानधिकरणे हेतोर्वर्तमानत्वम् न तु साध्याधिकरणे हेतोरवर्तमानत्वम् । अतः न वह्निमानाकाशादित्यत्र स्वरूपासिद्धेतिव्याप्तिः ( म० प्र० २ पृ० २६) इति । इदं विरुद्धत्वं च मणिकन्मताभिप्रायेणास्ति अन्वयत्र्याप्तिग्रहविरोधि च भवति इति विज्ञेयम् (दीधि० २ पृ० १९७ ) (न्या० म० २ पृ० २०)। साध्यव्यापकाभावप्रतियोगित्वम् । वृत्तिमतः साध्यवदवृत्तित्वम् । साध्यवद्वृत्तित्वानधिकरणत्वम् । साध्यासमानाधिकरणधर्मत्वम् । साध्यवद्वृत्तित्वानधिकरणधर्मत्वं वा (चि० पृ० ९२-९३)। यथा गौरश्वत्वादित्यादौ (न्या० म०)। यथा वा ह्रदो वह्निमाञ्जलादित्यत्र जलस्य विरुद्धत्वम् । २ विरोधित्व शब्दवदस्यार्थीनुसंधेयः (न्या० सि० दी० पृ० ५६ )। विरोधः-१ इष्टार्थभङ्गः ( निग्रहस्थानम् ) ( त० भा० पृ० ५१ )। २ कचित् तद्वत्ताग्रहप्रतिबन्धकज्ञानविषयत्वम् (ग० सत्प्र०)। यथा हृदे वह्निमत्ताग्रहप्रतिबन्धकनिश्चयविषयस्य वह्रथभाववद्धदस्य ह्रदो वह्निमान् इत्यनेन सह विरोधः । ३ विरुद्धत्वम् ( त० भा०) (वाक्य०)। ४ विरोधित्वम् ( दीधि० २) (ग० बाध० )। ५ परस्पराभावव्याप्यत्वाविशेषितयोः परस्परज्ञानप्रतिबन्धकीभूतज्ञानविषयत्वम् । अयं च स्वरूपतो विरोधः इत्युच्यते (ग० सव्य० )। यथा घटघटाभावयो Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy