________________
न्यायकोशः ।
1
लक्षणं संपते । [ ङ ] साध्यासमानाधिकरणसाध्याभावव्याप्यः । साध्यवदन्योन्याभावव्याप्तो वा ( चि० २ हेत्वाभा ० पृ० ९० ) ( न्या० म० २ ० २०-२१ ) । यथा शब्दो नित्यः कार्यत्वादित्यादौ कार्यत्वादिर्हेतुर्विरुद्ध: ( त० भा० ) ( भा० प० ) ( मु० ) (वै० वि० ३।१।१५ ) ( त० सं० ) ( वाक्य ० ) । यथा वा गौरश्वत्वादित्यादावश्वत्वं विरुद्धम् ( न्या० म० २ ० २१ ) । अत्र सांध्याभावत्वं साध्यविरोधित्वमात्रं भावाभावसाधारणम् । तेन अभावे साध्ये अभावाभावस्य भावत्वेपि नाव्याप्तिः ( चि० २ हेत्वा० पृ० ९० ) । साध्याभावव्याप्तिश्च साध्याभावस्य पूर्वपक्षीयान्वयव्याप्तिः । सा तु साध्यवदवृत्तिमत्त्वम् इति प्राञ्चः मणिकारादयः आहुः । इदमेव साध्यासमानाधिकरण्यरूपं विरुद्धत्वम् । दीधितिकारादयो नव्यास्तु साध्याभावस्य व्यतिरेकव्याप्तिः । सा तु प्रकृतहेतुनिष्ठं साध्यव्यापकाभावप्रतियोगित्वंम् इति वदन्ति । इदं च प्राचीनमते असाधारण्यमेव इति ज्ञेयम् । तथा च प्राचीनमणिकृन्मते साध्यवदवृत्तित्वस्य विरुद्धत्वरूपत्वेपि असाधारण्यस्य निश्चित साध्यवदवृत्तित्वरूपतया तयोनभेदः । नवीनदीधितिकारमते तु साध्याभावनिरूपिताया व्यतिरेकव्याप्तेः ( साध्यव्यापकीभूताभावप्रतियोगित्वस्य ) विरुद्धत्वरूपत्वेपि साध्यवदवृत्तित्वस्यासाधारण्यतया नासाधारण्यविरुद्धत्वयोरभेदः इति विवेको द्रष्टव्यः ( नील०२ पृ०२५ ) । सत्प्रतिपक्षस्तु साध्याभावव्याप्यं हेत्वन्तरमेव इति तु सर्वेषां नैयायिकानां सिद्धान्तः इति सूक्ष्मतरमेतत् । स चायं विरुद्धः विधिसाधने त्रिविधः ( १ ) साक्षात्साध्याभावव्याप्यत्वात् (२) साध्यव्यापकाभावव्याप्यत्वात् (३) साध्यव्यापकविरुद्धोपलम्भाच्च । यथा ( १ ) अधूमवानयं योग्य - धूमवत्तया अनुपलभ्यमानत्वात् (२) निरग्निकत्वात् (३) जलाशयत्वात् इति । निषेधसाधनेपि त्रिविधः ( १ ) प्रतियोग्युपलम्भात् ( २ ) साध्यव्यापकाभावोपलम्भात् ( ३ ) साध्यव्यापक विरुद्धोपलम्भाश्च । यथा (१) निरग्निकोयमग्निमत्त्वात् (२) धूमाभावशून्यत्वात् ( ३ ) धूमवत्त्वात् ( चि० २ ० ९४ ) इति ।
७७४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org