________________
न्यायकोशः। विभागः शब्दस्य विभागस्य च हेतुर्भवति ( प्रशस्त० गु० पृ० ३२) इति । तत्र विभागः शब्दस्य हेतुर्यथा वंशे पाट्यमाने यः चटचटाशब्दः स विभागजन्यः । तत्र वंशदलद्वयाकाशविभागः असमवायिकारणम् वंशदलद्वयविभागो निमित्तकारणम् इति विज्ञेयम् ( त० कौ० गु० पृ० १९) । विभागस्य विभागहेतुत्वं तु समनन्तरमेवोक्तम् । अत्र विनाशस्तु सर्वस्य विभागस्य क्षणिकत्वात् उत्तरसंयोगावधिसद्भावात् । क्वचित् आश्रयविनाशादेव विनश्यति ( प्रशस्त० गु० पृ० ३४ ) । तथा हि यदा द्वितन्तुककारणावयवेशौ कर्मोत्पन्नमंश्वन्तराद्विभागमारभते तदैव तन्त्वन्तरेपि कर्मोत्पद्यते. विभागाच्च तन्त्वारम्भकसंयोगविनाशः तन्तुकर्मणा तन्त्वन्तराद्विभागः क्रियते इत्येकः कालः । ततो यस्मिन्नेव काले विभागात्तन्तुसंयोगविनाशः तस्मिन्नेव काले संयोगविनाशात्तन्तुविनाशः । तस्मिन्विनष्टे तदाश्रितस्य तन्त्वन्तरविभागस्य विनाशः (प्रशस्त० गु० पृ० १९) इति । अन्यत्र चैवमुक्तम् । विभागश्च क्षणत्रयावस्थायी भवति । स च क्वचित् उत्तरदेशसंयोगात् कचिदाश्रयनाशात् कचिदुभाभ्यां च नश्यति ( त० व० २०७ ) (त० दी० ) ( सि० च०) (प्रशस्त० पृ० १८ ) इति । २ विभजनम् ( वाक्य० पृ० २)। ३ [क ] व्यवहारशास्त्रज्ञास्तु द्रव्यसमुदायविषयाणामनेकस्वाम्यानां तत्तदेकदेशे व्यवस्थापनम् ( मिताक्षरा अ० २ श्लो० ११६ टी० पृ० ६१ )। यथा विभागं चेत्पिता कुर्यादिच्छया विभजेत्सुतान् । ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समाशिनः॥ ( याज्ञ० अ० २ श्लो० ११७ ) इत्यादौ ( वीरमित्रो० अ० २ पृ० ५२२ ) इत्याहुः । श्रेष्ठादिविभागश्च मनुनोक्तः ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच्च यद्वरम् । ततो मध्यमस्य स्यात्तुरीयं तु यवीयसः॥ ( मनु० अ० ९ श्लो० ११२) (आपस्त-सू० २।६।१४।७ ) इति। [ख] अन्ये व्यवहारशास्त्रज्ञास्तु पूर्वस्वामिस्वत्वनाशोत्तरं तत्संबधाधीनत्वेन जातस्वत्वस्य व्यञ्जको व्यापारविशेष इत्याहुः ( वाच० )। ४ कार्यकारणयोगविधिदुःखान्तानां यथासंभवं लक्षणतः असंकरेणाभिधानं विभागः ( सर्व० सं० पृ० १७१ नकुली०)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org