________________
७६९
न्यायकोशः। कर्मजो द्विविधः अन्यतरकर्मजः द्विकर्मजश्च। तत्राद्यः श्येनशैलयोविभागः। द्वितीयो मेषयोविभागः । विभागजोपि द्विधा कारणमात्रविभागजन्यः कारणाकारणविभागजन्यश्च । तत्रादिमो यथा कपालद्वयविभागाकपालपूर्वदेशविभागः । द्वितीयस्तु यथा हस्तपुस्तकविभागाकायपुस्तकविभागः ( भा० ५० गु० श्लो० १२०-१२१) इति । अत्र द्वितीयविभागे कायकारणस्य हस्तस्य तदकारणस्य पुस्तकस्य च विभागेन हस्तकार्यस्य कायस्य तदकार्यस्य पुस्तकस्य च विभागः इति ज्ञेयम् ( त० व० )। अत्रेदमाकृतम् । यदा हस्ते कर्मोत्पन्नमवयवान्तराद्विभागमकुर्वदाकाशादिदेशेभ्यो विभागानारभ्य प्रदेशान्तरे संयोगानारभते तदा ते कारणाकारणविभागाः कर्म यां दिशं प्रति कार्यारम्भाभिमुखं तामपेक्ष्य कार्याकार्यविभागानारभन्ते । तदनन्तरं कारणाकारणसंयोगाच्च कार्याकार्यसंयोगान् आरभन्ते यदि कारणविभागानन्तरं कार्यविभागोत्पत्तिः कारणसंयोगानन्तरं कार्यसंयोगोत्पत्तिः (सर्व० पृ० २२८ औलू०) (प्रशस्त० गु० पृ० ३३ ) इति । अन्यत्र चैवमुक्तम् । यत्र हस्तक्रियया हस्ततरुविभागः तेन शरीरतरुविभागो जायते । तत्र च शरीरतरुविभागे हस्तक्रिया न कारणम् । व्यधिकरणत्वात् । शरीरे तु तदा क्रिया नास्ति । अवयवक्रियाया यावदवयवक्रियानियतत्वात् । अतस्तत्र कारणाकारणविभागेन कार्याकार्यविभागो जन्यते इति । अत एव विभागो गुणान्तरम् । अन्यथा शरीरे विभक्तप्रत्ययो न स्यात् ( वै० वि० ७।२।१० ) (मु० गु० पृ० २०८ ) इति । अत्रेद बोध्यम् । कार्याविष्ट ( कार्यव्याप्ते ) कारणे कमोत्पन्नं यदा तस्यावयवान्तराद्विभागं करोति न तदा आकाशादिदेशात् । यदा त्वाकाशादिदेशाद्विभागं करोति न तदा अवयवान्तरात् इति स्थितिः ( सर्व० पृ० २२६ औलू० ) ( त० व० पृ० २२४ ) (प्रशस्त० गु० पृ० ३२) । तथा च प्रथमं यत्रैककपाले कर्म ततः कपालद्वयविभागः ततो घटारम्भकसंयोगनाशः ततो घटनाशः ततस्तेनैव कपालद्वयविभागेन सकर्मणः कपालस्याकाशादिना विभागो जायते ततः . कपालाकाशादिसंयोगनाशः तत उत्तरदेशसंयोगः ततः कर्मनाशः (मु० गु० पृ० २०७ ) (वै० वि० ७२।१०) इति । अत्र भाष्यम् १७ न्या० को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org