________________
७६८
न्यायकोशः। वाच्यमिति । शिष्यते च खलु नामिक्या विभक्तरव्ययाल्लोपः तयोः
पदसंज्ञार्थमिति ( वात्स्या० २।२।५७ )। विभजनम्-[क] सामान्यधर्मावान्तरधर्मपुरस्कारेण धर्मिप्रतिपादनम्
(ग० २ सव्य० )। [ख] सामान्यधर्मस्य साक्षान्न्यूनवृत्तियावद्धर्मप्रकारकज्ञानानुकूलो व्यापारः ( वाक्य० १ पृ० २)। स्वसमभिव्याहृतपदार्थतावच्छेदकसाक्षायाप्यपरस्परविरुद्धधर्मप्रकारकज्ञानानुकुलशब्दप्रयोगः इत्यर्थः । यथा द्रव्यं विभजते इति प्रतिज्ञाय कृतं पृथिव्यापस्तेजो वायुराकाशम् इत्यादिविभजनम् । [ग]. सामान्यधर्मयुतानां बहूनां
परस्परविरुद्धतठ्याप्यधर्मप्रकारेण प्रतिपादनम् ( श्रीकृष्णः ) (वाच०)। विभवः-१ विभुत्वम् (वै० उ० ७।१।२२ ) । यथा विभवान्महानाकाश
स्तथा चात्मा (वै० ७१।२२ ) इत्यादौ । २. रामाद्यवतारो विभवः इति रामानुजीया वदन्ति ( सर्व० पृ० ११५ रामा० )। ३ संवत्सरविशेषः इति मौहूर्तिका वदन्ति । ४ मोक्षः इति वेदान्तिन आहुः ।
५ ऐश्वर्यम् इति काव्यज्ञा आहुः। , विभागः-१ ( गुणः ) [क] संयोगनाशको गुणः । स च सर्वद्रव्य
वृत्तिः अव्याप्यवृत्तिश्च ( नील० ) (त० सं० )। प्रतियोगितासंबन्धानवच्छिन्ननाशनिष्ठजन्यतानिरूपितजनकतावान इत्यर्थः इति केचिदाहुः । तेन संयोगस्यापि स्वनाशं प्रति प्रतियोगिविधया कारणत्वेपि संयोगे नातिव्याप्तिः इति विज्ञेयम् । परे तु संयोगनाशत्वावच्छिन्ननिरूपितसमवायावच्छिन्नकारणतावान् इत्यर्थः इत्याहुः ( नील० १ पृ: १४ )। अयमस्माद्विभजते इति प्रत्यक्षसिद्धोयं विभागगुणः । अतः संयोगनाशेन नान्यथासिद्धः इति ज्ञेयम् (वै० वि० ७।२।१० पृ० ३३२ )। अत्राधिकं च एतेन विभागो व्याख्यातः (वै० ७२.१०) इति सूत्रोपस्कारे दृश्यम। [ख ] विभक्तव्यवहारासाधारणकारणम् (मु० गु० पृ० २०७ )। (प्र० प्र०)। [ग] विभक्तप्रत्ययनिमित्तम् । स च प्राप्तिपूर्विका अप्राप्तिः (प्रशस्त० गु० पृ. ३२ )। [घ ] विभागत्वसामान्यवान् (त० को०)। स द्विविधः कर्मजः विभागजश्च (त० दी० )। तत्र
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org