________________
न्यायकोशः। विप्रतिषेधः । तत्रापि तथैवानैकान्तिकत्वम् तत्समानदोषोद्भावनं वा चतुर्थः पक्षः (गौ० वृ० ५।१।४१) इति । २ शाब्दिकास्तु द्वयोः शास्त्रयोः कचिल्लब्धावकाशयोरेकत्र प्रयोगे युगपदसंभविस्वकार्यसमर्पणम्। यथा विप्रतिषेधे परं कार्यम् (पा० सू० १।४।२ ) इत्यादौ इति वदन्ति । तथा हि । वृक्षेभ्य इत्यत्र सुपि च (पा० सू० ७।३।१०२ ) इत्यनेन दीर्घः प्राप्तः । बहुवचने झल्येत् ( पा० सू० ७।३।१०३ ) इत्यनेन च एत्वमपि प्राप्तम् । उभयप्राप्तौ परत्वाद्विप्रतिषेधेनैत्वमेव भवति ( काशिका
१।४।२) इति । विभक्तिः-१ विभागः । अत्रोदाह्रियते अविभक्तं स्थावरं यत्सर्वेषामेव तद्भवेत् । विभक्तं स्थावरं ग्राह्यं नान्योदयः कथंचन ॥ ( यम० ) इति । २ पदवृत्तिः ( गौ० वृ० २।२।५७ )। यथा ते विभक्त्यन्ताः पदम् ( गौ० २।२।५७ ) इत्यादी विभक्तिशब्दार्थः । ३ ( प्रत्ययः ) [क] संख्यात्वावान्तरजात्यवच्छिन्नशक्तिमान् यः प्रत्ययः सा विभक्तिः । यथा घटोस्तीत्यत्र घटपदोत्तरवर्तिनी सु इति विभक्तिः । एकत्वत्वाद्यवच्छिन्नशक्तिमानपि तदादिर्न प्रत्ययः इति प्रत्ययश्च तृजादिन संख्याशक्तः इति च तदादेः तृजादेश्च व्युदासः ( श० प्र० श्लो० ६. टी० पृ० ७२ )। [ख] यः शब्दः स्वार्थे धर्मिणि स्वप्रकृत्यर्थविधेयकान्वयबोधं प्रति समर्थः स वा विभक्तिरित्युच्यते । यथा घटम् घट इत्यादौ । इयं विभक्तिर्द्विविधा सुप् तिङ् चेति । अत्र सुपा ( अमा) कर्मत्वं घटीयम् इत्यादिरिव पचतीत्यादौ तिङापि कृतिः पाकीया इत्यादिरुद्देश्यविधेयभावेन स्वार्थे प्रकृत्यर्थस्य धीरुत्पाद्यते इति लक्षणसमन्वयो बोध्यः । घट इत्यत्र प्रथमाप्यभेदादौ स्वार्थे प्रकृत्यर्थस्य विधेयभावेन धियं जनयत्येव इति लक्षणसमन्वयो बोध्यः । लक्षणान्तरग्रहणे आवश्यकत्वमाह यद्याख्यातमात्रस्य तदेकवचनस्य वा न संख्याशक्तत्वे प्रमाणम् तदेदं लक्षणान्तरम् इत्यवधेयम् (श, प्र० श्लो० ६१ टी, पृ० ७३ )। विभक्तिर्द्वयी नामिकी आख्यातिकी च । तत्र नामिकी सुप् । आख्यातिकी तिङ् । ब्राह्मणः पचतीत्युदाहरणम् । उपसर्गनिपातास्तर्हि न पदसंज्ञाः । लक्षणान्तरं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org