________________
७६६
न्यायकोशः। संभवतः। न चान्यतरसाधको हेतुरुपलभ्यते । तत्र तत्त्वानवधारणं संशयः ( वात्स्या० १।१।२३ ) इति । [ ख ] वेदान्तिनस्तु विरुद्धार्थकवाक्यद्वयजन्यप्रतीतिद्वयम् इत्याहुः (प्र० प० टी० वेदेशतीर्थी० पृ० ८ )। [ग] विरुद्धकोटिद्वयोपस्थापकः शब्दः ( गौ० वृ० १।१।२३ ) ( दि० गु० )। स च विरुद्धार्थप्रतिपादकवाक्यद्वयात्मकः पर्वतो वह्निमान् न वा इति संशयापादकः । [घ] विरुद्धार्थप्रतिपादकवाक्यद्वयम् ( नील० ४ पृ० ३४ )। यथा पर्वतो वह्निमान् न वा इति वाक्यद्वयम् । तथा हि । वादिना पर्वतो वह्निमान् इति प्रतिवादिना च पर्वतो वह्नयभाववान् इति प्रतिज्ञाते मध्यस्थस्य पर्वतो वह्निमान् न वा इति संशय उत्पद्यते । अतस्तस्य संशयाधायकत्वात्तथात्वम् । २ [क] विपरीता वा कुत्सिता वा प्रतिपत्तिः विप्रतिपत्तिः। विप्रतिपद्यमानः पराजयं प्राप्नोति । निग्रहस्थानं खलु पराजयप्राप्तिः ( वात्स्या० १।२।१९)। [ख ] विरुद्धा प्रतिपत्तिः ( गौ० वृ० १।२।१९ ) ( दि० गु० )। अत्रोदाह्रियते परस्परं मनुष्याणां स्वार्थे विप्रतिपत्तिषु (स्मृतिः ) इति । इयं तु निग्रहस्थानोन्नेया इति विज्ञेयम् । ३ विरोधः। ४ अहः इति
याज्ञिका आहुः ( कात्या० श्री. )। विप्रतिषेधः-१ तुल्यबलविरोधः । यथा प्रतिषेधविप्रतिषेधे प्रतिषेधवदोषः
(गौ० ५।१।४१) इत्यादौ । अत्र भाष्यम्। योयं प्रतिषेधेपि समानो दोषोनैकान्तिकत्वमापद्यते सोयं प्रतिषेधस्य प्रतिषेधेपि समानः । तत्र अनित्यः शब्दः प्रयत्नानन्तरीयकत्वात् इति साधनवादिनः स्थापना प्रथमः पक्षः । प्रयत्नकार्यानेकत्वात्कार्यसमः इति दूषणवादिनः प्रतिषेधहेतुना द्वितीयः पक्षः । स च प्रतिषेध इत्युच्यते । तस्यास्य प्रतिषेधस्य प्रतिषेधेपि समानो दोषः इति तृतीयः पक्षः विप्रतिषेध इत्युच्यते। तस्मिन् प्रतिषेधविप्रतिषेधेपि समानो दोषोनैकान्तिकत्वम् चतुर्थः पक्षः (वात्स्या० ५।१।४१ )। अत्र वृत्तिः । शब्दः अनित्यः प्रयत्नानन्तरीयकत्वात् इति स्थापनावादिनः प्रथमः पक्षः । प्रयत्नकार्यानेकत्वात्कार्यसमः इति प्रतिवादिनो द्वितीयः पक्षः । प्रतिषेधप्रतिषेधेप्यनैकान्तिकत्वं तुल्यम् इति वादिनस्तृतीयः पक्षो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org