________________
न्यायकोशः।
७६५ ( ४ ) न सत् नासत् न सदसत् किं तु अनिर्वचनीयमेव इति मायावादिनो मन्यन्ते । (५) श्रीमदानन्दतीर्थाचार्यास्तु असदेव रजतं प्रत्यभात् इत्युत्तरकालीनानुभवात् शुक्तिरेवात्यन्तासद्रजतात्मना द्रष्टुर्दोषवशात् प्रतिभाति इति प्राहुः (प्र० ५० पृ० ४ )। [ग] पातञ्जलास्तु पश्चविधवृत्त्यन्तर्गतो वृत्तिविशेष इत्याहुः (पात० सू० पा० १ सू० ६, ८)। २ संशयः। ३ विपरीतम । यथा विपर्ययोभूत्सकलं जलौकसः ( भाग०
स्क० ८ अ० २ श्लो० २९ ) इत्यादौ । विपाकः-१ अन्यथाभूतस्थान्यरूपेण परिणामः ( वाच० )।२ विपाकाः ___ कर्मफलानि जात्यायुर्भोगाः ( सर्व० सं० पृ० ३६५ पात० )। विप्रः-१ विद्वान् ब्राह्मणः । अत्रोक्तम् जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज
उच्यते । विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते ॥ (प्रा०वि०) ( वाच० ) इति । यथा विप्राय वेदविदुषे श्रोत्रियाय कुटुम्बिने । नरकोत्तारणार्थाय अच्युतः प्रीयतामिति ॥ ( वायनमत्रः ) इत्यादी
विप्रः । २ अश्वत्थवृक्षः ( राजनि० )। विप्रकर्षः- [क] संयुक्तसंयोगभूयस्त्वम् ( दूरत्वम् ) ( वै० उ०
७।२।२१)। [ख] बहुतरसंयोगान्तरितत्वम् (दि० गु० पृ० २०८ )। यथा मुम्बापुर्याः पुण्यप्राममपेक्ष्य झळकीग्रामस्य विप्रकर्षः । अयं दिकृतो विप्रकर्षः इति विज्ञेयम। विप्रकर्षो द्विविधः दिकृतः कालकृतश्च । विप्रकर्षज्ञानं परत्वे निमित्तकारणं भवति । कालकृतविप्रकर्षश्च तदपेक्षया बहुतरतपनपरिस्पन्दान्तरितजन्मत्वम् (वै० उ० ७।२।२१ )। तदर्थश्च तजन्मक्षणवृत्तिध्वंसप्रतियोगिस्पन्दवृत्तित्वे सति जन्मवत्त्वम् इति ( प० मा० )। यथा गौतमर्षेरुदयनाचार्यमपेक्ष्य गङ्गशोपाध्याय
गदाधरभट्टाचार्ययोर्विप्रकर्षः । शिष्टं च परत्वशब्दव्याख्याने दृश्यम् । विप्रकृष्टत्वम्-[क] विप्रकर्षः। [ख] दूरस्थत्वम् इत्येकदेशिन आहुः । विप्रतिपत्तिः-१ [क] व्याहतमेकार्थदर्शनं विप्रतिपत्तिः । इदं च संशय
प्रयोजकम् । तथा हि अत्र व्याघातो विरोधोसहभाव इति । अस्यात्मा इत्येकं दर्शनम् । नास्यात्मा इत्यपरम् । न च सद्भावासद्भावौ सहैकत्र
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org