________________
१६४
न्यायकोशः। करणत्वेनेन्द्रियं भावयेत् इति वाक्यार्थः । तच्च दधिकरणत्वम् किंनिष्ठम् इत्याकाङ्क्षायां संनिधिप्राप्तहोम आश्रयत्वेनान्वेति (लौ० भा० पृ०१६)। [ग] अङ्गप्रधानसंबन्धबोधको विधिर्विनियोगविधिः ( मी० न्या० पृ० १२ )। विनियोगविधेः सहकारिभूनानि षट् प्रमाणानि सन्ति
श्रुतिः लिङ्गम् वाक्यम् प्रकरणम् स्थानम् समाख्या इति ( लौ० भा० __पृ० १६-२९)। एतत्सहकृतेनानेन विधिना अङ्गत्वं परोद्देशप्रवृत्तकृति
साध्यत्वरूपपारार्थ्यापरपर्यायं ज्ञाप्यते । .. विपक्षः---१ [क] निश्चितसाध्याभाववान् । यथा पर्वते 'वह्निसाधने
हृदो विपक्षः ( त० सं० २)। विपक्षत्वं च साध्याभावप्रकारकनेश्चयविशेष्यत्वम् ( न्या० बो० २ ) अथ वा विशेष्यतासंबन्धेन साध्यभावप्रकारकनिश्चयवत्त्वम् ( वाक्य० २) इति ज्ञेयम् । [ख] वेदान्तिनस्तु साध्यतत्समानधर्मरहितो धर्मी इत्याहुः (प्र० च० पृ० २४ )। २ प्रतिकूलपक्षः इति व्यवहारज्ञा आहुः। ३ शत्रुः इति
काव्यज्ञा आहुः ( अमरः )। विपरीतज्ञानम्-१ संशयः ( नील० )। २ भ्रमः।। विपर्ययः-१ (अप्रमा) [क] मिथ्याज्ञानापरपर्यायः अयथार्थनिश्चयः
(गौ० वृ० ४।१।३ )। अत्र अयथार्थज्ञानमेव नास्ति इति प्राभाकरादय आहुः ( प्र० प० पृ० ४ )। [ख] वेदान्तिनस्तु विपरीतनिश्चयः (प्र० प० पृ० ४ )। अत्र विपरीतत्वं च पुरोवर्तिन्यविद्यमानप्रकारकत्वम् (प्र० प० टी. वेदेशतीर्थी० पृ० १०)। विपरीतनिश्चयश्च प्रत्यक्षानुमानागमाभासेभ्यो जायते । तत्र प्रत्यक्षाभासजो यथा शुक्तिकायां इदं रजतम् इत्यादि । अनुमानाभासजो यथा धूलीपटले धूमभ्रमाद्वह्नयभाववति वह्नयनुमितिः । आगमाभासजो यथा नदीतीरे पञ्च फलानि सन्ति इति प्रतारकवाक्यजन्यज्ञानम् इत्याहुः (प्र० च० पृ० ८-९)। अत्र प्रत्यक्षाभासविषये विप्रतिपत्तिः। (१) प्रतीतं रजतं देशान्तरे सदेव इति वैशेषिकादय आहुः । (२) ज्ञानस्वरूपमेव इति विज्ञानवादिन आहुः । (३) तत्रैव तात्कालिकमुत्पन्नं सत् इति भास्कर आह।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org