________________
न्यायकोशः।
७७१ विभाजकोपाधिः-सामान्यधर्मसाक्षाद्व्याप्यो धर्मः ( मू० म०)। यथा
ज्ञानविभाजकोपाधिर्धमत्वं प्रमात्वं च । यथा वा द्रव्यविभाजकोपाधिः पृथिवीत्वजलत्वतेजस्वादिः । अत्र साक्षाव्याप्यत्वं च तद्व्याप्याव्याप्यत्वे
सति तद्व्याप्यत्वम् । विभु-अनवच्छिन्नसद्भावं वस्तु यद्देशकालतः । तन्नित्यं विभु चेच्छन्ती
त्यात्मनो विभुनित्यता ॥ ( सर्व० सं० पृ० १८१ शै० )। विभुत्वम्-१ [क] सर्वगतत्वम् ( गौ० वृ० ४।२।२०)। [ख]
परममहत्परिमाणवत्त्वम् (मु० १)। [ग] मूर्तेतरद्रव्यत्वम् ( त० प्र० १)। [घ] सर्वमूर्तद्रव्यसंयोगित्वम् । यथा आकाशस्य विभुत्वम् (त० दी० १ पृ० १०) ( वाक्य० १ पृ० ५ ) ( न्या० बो० १ पृ० ३ )। विभवश्चत्वारः आकाशः कालः दिक् आत्मा चेति (भा० ५० श्लो० २६ )। अत्रेदं बोध्यम् । विभुकार्य स्वासमवायिकारणावच्छिन्नदेशे उत्पद्यते ( वै० उ० ३।२।१ ) इति । विभुद्वयसंयोगश्च सिद्धान्ते नाङ्गीक्रियते । अन्यथा सुषुप्तिर्न प्राप्नुयात् । २ ईशत्वादिगुण
विशिष्टत्वम् इति वेदान्तिप्रभृतय आहुः । विभुविशेषगुणत्वम् -अकारणगुणोत्पन्नगुणत्वम् ( भा० प० गु० श्लो०
९५ ) (५० मा०)। विमतम्-१ वादिप्रतिवादिनोर्विवादविषयीभूतम् । यथा विमतम् जगत् मिथ्या दृश्यत्वाजडत्वात्परिच्छिन्नत्वाद्वा शुक्तिरजतवत् इत्यादौ । अत्र मायावादिमतसिद्धानुमाने जगतः सत्यत्व मिथ्यात्वाभ्यां विवादः (विप्रतिपत्तिः ) । २ विरुद्धमतियुक्तम् । यथा विमतम् ( मायावादिमतम् ) अनारम्भणीयम् अन्यथाप्रतिपादकत्वात् बौद्धादिशास्त्रवत् इत्यादौ
( मायावादख० )। ३ संदिग्धम् ।। विमर्शः-१ विरोधविषयकं ज्ञानम् । यथा विमर्शः संशयः (गौ० १।१।२३)
इत्यादौ । २ विचार इति काव्यज्ञा वदन्ति । ३ वितर्कः ( हेमच० )। ४ नाटकाङ्गसंधिविशेषः इति नाटकलक्षणज्ञा आहुः । तदुक्तम् यत्र मुख्यफलोपाय उद्भिन्नो गर्भतोधिकः । शापाद्यैः सान्तरायश्च स विमर्श
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org