________________
न्यायकोशः।
७६२ विधेयः । अत्र विधेयत्वं च अज्ञातस्यानुष्ठेयत्वेन प्रतिपाद्यमानत्वम्
( लौ० भा० टी० पृ० १५)। ३ अधीन इति काव्यज्ञा आहुः। विनयः-दण्डः। विनश्यदवस्थत्वम्-स्वप्रतियोगित्व स्वाव्यवहितपूर्ववृत्तित्व एतदुभयसंबन्धेन ___ नाशविशिष्टत्वम् । यथा भावकार्यस्य विनश्यदवस्थत्वम् । विनष्टः-१ भूतकालोत्पत्तिकनाशप्रतियोगी । यथा विनष्टो घटः इत्यादौ ।
२ पतितः । यथा विनष्टे वाप्यशरणे पितर्युपरतस्पृहे इति नारदस्मृतौ । __३ स्वदेशादन्यत्र गतः इति च धर्मशास्त्रज्ञा आहुः ( दायभागे )। विना-१ अभावः । यथा दण्डं विना न घटः इत्यादौ । एवम् ऋते
अन्तरेण इति निपातयोरप्यर्थ ऊह्यः । अत्र प्रतियोगित्वमनुयोगित्वं वा द्वितीयार्थः । तस्य च विनार्थ अभावेन्वयः। विनान्तार्थस्याभावस्य नबर्थे घटाद्यभावे प्रयोज्यतासंबन्धेनैवान्वयः। अत एव रासभं विना न घटः इत्यादयो न प्रयोगाः ( ग० व्यु० का० २ ख० २ पृ० ७३ )।
२ वर्जनम् इति काव्यज्ञा आहुः। ' विनाडिका–विनाडिका तु षट् प्राणाः । अहोरात्रशब्दे दृश्यम् । विनाडी-(प्राणशब्दे दृश्यम् )। . विनायकः-चतुर्थी ( पु० चि० ८६ )। विनाशित्वम्-ध्वंसप्रतियोगित्वम् । यथा घटस्य विनाशित्वम् । अत्रेदम
वधेयम् । आशुविनाशित्वं च तृतीयक्षणवृत्तिध्वंसप्रतियोगित्वम् । यथा यागस्याशुविनाशित्वम् (त० प्र० ख० ४ पृ० १०९)। बौद्धास्तु पदार्थमात्रस्य स्वोत्पत्तिद्वितीयक्षण एव नाशाभ्युपगमात् द्वितीयक्षणवृत्ति
ध्वंसप्रतियोगित्वमेव सर्वत्र विनाशित्वम् इत्याहुः । विनिगमना-अन्यतरपक्षपातिनी युक्तिः (सि० च० ) (भवा० ) ( त०
प्र० ख० ४ पृ० ४७-४८ )। यथा अयमेव पक्षो प्रायः पक्षान्तरं तु न ग्राह्यम् अत्र का विनिगमना इत्यत्र । यथा वा उदिते जुहोति अनुदिते जुहोति इत्यादिविकल्पस्थले उदित एव हवनं कार्यम् अनुदिते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org