________________
न्यायकोशः।
७६१ वादाद्युपस्थापित ब्रह्मलोकावाप्तेर्नरकात्यन्ताभावस्यैव वा प्रायश्चित्तसंध्यावन्दनादिफलत्वसंभवादिष्टसाधनत्वमेव लिङर्थः इति प्राहुः। तत्र स्मयते । संध्यामुपासते ये तु सततं शंसितव्रताः । विधूतपापास्ते यान्ति ब्रह्मलोकं सनातनम् ॥ इत्यादि (त० प्र० ४ पृ० १०२) । तथोक्तं याज्ञवल्क्येनापि निशायां वा दिवा वापि यदज्ञानकृतं भवेत् । त्रैकाल्यसंध्याकरणात्तत्सर्वं विप्रणश्यति ॥ ( याज्ञ० अ० ३ श्लो० ३०८ ) इति । मिताक्षरायां यमेनाप्युक्तम् यदह्नात्कुरुते पापं कर्मणा मनसा गिरा। आसीनः पश्चिमां संध्यां प्राणायामैनिहन्ति तत् ॥ इति । शातातपेनाप्युक्तम् अनृतं मद्यगन्धं च दिवा मैथुनमेव च । पुनाति वृषलान्नं च संध्या बहिरुपासिता ॥ ( मिताक्ष० अ० ३ श्लो० ३०८ टी० पृ० १४४ ) इति । २ प्रयोगः । ३ निदर्शनम् । यथा यत्र धूमस्तत्राग्निरिति अग्यभावे धूमो न भवति इति च ( प्रश० पृ० ४४ )। ४ दैवम् । यथा अनुकूलतामुपगते हि विधौ सकलेष्टसाधनमथो भवति इत्यादौ ।
५ ब्रह्मदेवः । ६ अर्थालंकारविशेषः । विधिशेषः-अर्थवादवाक्यम् । एतल्लक्ष्यप्राशस्त्यज्ञानं शाब्दभावनायामिति
कर्तव्यतात्वेन संबध्यते । विधेयः-१ उद्देश्ये प्रकारतया ज्ञायमानो विलक्षणविषयतावान् पदार्थः ।
यथा पर्वतो वह्निमान् धमात् इत्यादौ पर्वते वह्निर्विधेयः । यथा वा पचति इत्यादौ पुरुषे पाककृतिर्विधेया। सा च विलक्षणविषयता विधेयतारूपा। विधेयता च यथा वह्निमनुमिनोमि इत्याद्यनुव्यवसायनियामकः पक्षतावच्छेदकव्यावृतो विषयताविशेषः ( ग० पक्ष० पृ० १९)। केचित्तु प्रत्यक्षादिसाधारणी विशेष्यतावच्छेदकताभिन्ना मुख्यविशेष्यतानिरूपितप्रकारतैव विधेयता इत्याहुः ( ग० पक्ष० पृ० २४ ) ( श० प्र०)। शाब्दिकास्तु तदादिशब्दप्रतिपाद्यत्वे सत्युद्देश्यसंबन्धित्वेनापूर्वबोधविषयत्वम् अनुवाद्यभिन्ननिष्ठा विलक्षणविषयता वा विधेयता इत्याहुः। अत्रोक्तम् अनुवाद्यमनुक्त्वा च न विधेयमुदीरयेत् इति । २ मीमांसकास्तु विधिबोध्यार्थः । यथा दन्ना जुहोति इति गुणविधौ होममनूद्य दधिरूपो गुणो ९६ न्या. को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org