________________
७६०
न्यायकोशः ।
प्रवृत्तिजननी च कृतिसाध्यत्वप्रकारकेच्छा । तज्जननी च कृतिसाध्यत्वंप्रकारिका बुद्धिः इति यावत् ( न्या० म० ४ पृ० २५ ) | अत्रेदमवधेयम् । प्राभाकरमत इष्टसाधनत्वमपि विध्यर्थो भवत्येव । अत एव तैर्नित्या पूर्व निषेधापूर्वरूपं पण्डापूर्वमपि संध्यामुपासीत न कल भक्षयेत् (स्मृति: ) इत्यादिविधिनिषेधयोः कल्प्यते ( त० प्र० ४ पृ० ८९ ) । अत्रेदमधिकं बोध्यम् । प्राभाकरमते अन्यथाख्यातिर्नास्ति इति । एवं च तन्मते कार्यत्वमेव विध्यर्थः । अयमाशयः । प्राभाकरमते कार्यत्वविशिष्टापूर्वस्य विध्यर्थत्वाद्विशेषणांशः कार्यत्वमपि तदर्थः इति ( म०प्र० ४ पृ० ५९ ) | अत्रेदं बोध्यम् । प्राभाकरमते यागस्याशुविनाशित्वेन स्वर्गोत्पत्तिकाले तस्याभावात्तदुत्पत्त्यर्थं यागजन्यमपूर्वं कल्प्यते । तथा च वेदे कार्यत्वविशिष्टा पूर्वसंभवेन तत्र शक्तिरेव । परं तु लोके पचेत इत्यादावपूर्वे तात्पर्यासभवात् कार्यत्वे लक्षणैव । अथ वा लौकिकलिङः कार्यत्वे शक्तिः । वेदे तु स्वर्गकामान्वयानुपपत्त्या क्रियातिरिक्तकार्ये शक्तिः ( त० प्र० ख० ४ पृ० ११९ ) । भट्टास्तु स्थाय्यपूर्वकल्पनापेक्षया यागस्यैव स्थायित्वं कल्पनीयम् इत्याहुः । चिकीर्षाजन्यकृतिसाध्यत्वं कार्यत्वम् (न्या० सि० दी० पृ० ६५ ) । कार्यत्वं च कृतिसाध्यत्वम् । तज्ज्ञानमेव प्रवर्तकम् । तच्च ज्ञानम् कृतिसाध्य प्रकारकमित्यर्थः । तेन ज्ञानेन कृतिसाध्यत्वप्रकारिकेच्छा जन्यते । तया च प्रवृत्तिर्जन्यते । सा च पार्क यागं वा कुर्याम् इत्याकारिका चिकीर्षेत्यर्थः ( न्या० म० ) ( म०प्र० पृ० ५९ ) । तत्र प्राभाकरमतान्तर्वर्तिन एवमाहुः । कृति - साध्यत्वप्रकारकज्ञानं चेष्टसाधनतालिङ्गक कृतिसाध्यतानुमितिः इष्टसाधनताज्ञानकालीन कृतिसाध्यताज्ञानं वा काम्यस्थले प्रवर्तकम् । नित्यस्थले च अहरहः संध्यामुपासीत इत्यादौ अहमिदानींतन कृतिसाध्यसंध्यावन्दनकः ब्राह्मणत्वे सति विहितसंध्याकालीनशौचादिमत्त्वात् इति शौचादिमत्त्व - प्रतिसंधानजन्यं कृतिसाध्यताज्ञानं प्रवर्तकम् इति ( म०प्र० ख० ४ पृ० ५९ ) ( सि० च० ) । तथा च अहरहः संध्यामुपासीत इत्यादौ नित्यतया निष्फले संध्योपासनादाविष्टसाधनत्वस्यायोग्यत्वेनान्वयासंभवानेष्टसाधनत्वमपि लिङर्थोपूर्व विधिः । नैयायिकास्तु नित्यकर्मस्थलेपि अर्थ -
tu
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org