________________
७५९
न्यायकोशः। कुमार्याः पुंयोगे मानम् इति (कि० व०) (मु०) (म० प्र० ४) (त० को०)। अथ वा वक्रिच्छाविषयत्वम् । यथा घटमानय इत्यादी लोडर्थो विधिः ( तर्का० ४ पृ० ११) ( श० प्र० श्लो० १०१ टी० पृ० १४६) । अत्र घटकर्मकमदिच्छाविषयानयनानुकूलकृतिमांस्त्वम् इत्यन्वयबोधः । अत्रेदं बोध्यम् । यजेत स्वर्गकामः न कलङ्गं भक्षयेत् इत्यादी यागः स्वर्गकामकर्तव्यत्वेनाप्ताभिप्रायविषयः कलञ्जभक्षणं कर्तव्यत्वेनाप्ताभिप्रायविषयो न इति वाक्यद्वयार्थबोधः । यागादौ चाप्ताभिप्रायविषयत्वेनेष्टसाधनत्वादिकमनुमाय प्रवृत्तिः। कलञ्जभक्षणादौ तद्विषयत्वाभावेनानिष्टसाधनत्वमनुमाय निवृत्तिः इति ( म० प्र० ४ पृ० ५९)। भट्टमीमांसकास्तु विधिप्रेरणाप्रवर्तनादिशब्दाभिधेयः प्रवृत्त्यनुकूलव्यापार इत्याहुः । तन्मते वित्थम् । गामानय इत्याचार्यवाक्यश्रवणानन्तरं शिष्यप्रवृत्तिदर्शनात् शब्दप्रवृत्तौ प्रवर्तनाज्ञानं हेतुः । सा च प्रवर्तना पचेत इत्यादिलौकिकवाक्ये पुरुषनिष्ठोभिप्रायविशेषः । यजेत स्वर्गकामः इत्यादिवैदिकवाक्ये तु पुरुषाभावाच्छब्दनिष्ठैव । न चेश्वरकर्तृकत्वं वेदस्य । ईश्वरस्यैवानभ्युपगमात् । शब्दनिष्ठत्वादेव च शब्दभावना इत्युच्यते । सैव विध्यर्थः । स च लिङ्त्वेनाभिधीयते । अर्थभावना तु प्रवृत्त्यादिव्यापाररूपा । सा चाख्यातत्वेनोपस्थाप्यते इति । तत्रोक्तम् अभिधाभावनामाहुरन्यामेव लिङादयः । अर्थात्मभावना त्वन्या सर्वाख्यातस्य गोचरः ॥ (म० प्र० ४ पृ० ५८ ) इति । अयमाशयः। स्वर्गकामो यजेत इत्यादौ लिङादिप्रत्यये अंशद्वयमस्ति लिङ्त्वम् आख्यातत्वं च । तत्र लित्वांशेन प्रवर्तनाख्यः शब्दनिष्ठो व्यापारो बोध्यते । ईश्वरामभ्युपगमात् । अयं शब्दभावना इत्युच्यते । तेन व्यापारेण च प्रात्त्याख्यो यागकर्तृपुरुषनिष्टो व्यापार आख्यातत्वांशेन बोध्यमान उपस्थाप्यते । अयमेव अर्थभावना इत्युच्यते । एवं च पुरुषनिष्ठायाः प्रवृत्तेरनुकूलः प्रवर्तनाख्यः शब्दनिष्ठो व्यापारो विध्यर्थः इति ( लौ० भा० पृ० ५-१०) । प्राभाकरास्तु विध्यर्थः कार्यत्वमात्रम् । तच्च कृतिसाध्यत्वम् । तथा हि । यद्विषयिणी बुद्धिः प्रवृत्तिजननीमिच्छां प्रसूते स विधिप्रत्ययप्रतिपाद्यः । प्रवृत्तिजनकेच्छाजनकज्ञानप्रकारः इत्यर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org