________________
न्यायकोशः।
भावः । यथा असन्नश्वो गवात्मना। अघटः पट इति ( ५० च०) (वै० उ० ९।१।४ )। यथा वा घटः पटात्मा न भवतीति ( सर्व० औलु० पृ० २३३ )। [५] तादात्म्यसंबन्धावच्छिन्नप्रतियोगिताकः अभावः (त० सं०) ( ग० सि० ) (त० कौ० २१ )। घटः पटो न भवतीत्यादितो घटात्मा पटो न भवति इत्यर्थो बोध्यते । एवं च घटतादात्म्यस्याभावः घटतादात्म्येनावच्छिन्ना या घटनिष्ठा प्रतियोगिता तन्निरूपको भेदो वा पटे वर्तते इत्यवधेयम् । [3] इदमिदं न भवति इदमेतद्भिन्नम् इति प्रतीतिसाक्षिकः अभावः (न्या० म० ११११ )। यथा घटः पटो न भवति इति प्रतीतिसाक्षिको भेदः (ग० सि० ) - (प्र०प्र०)। अन्योन्याभावो धर्मिस्वरूप एव न तु पृथगिति मध्वाचार्या. नुयायिन आहुः । अन्योन्याभावशब्दे व्युत्पत्तिस्तु अन्योन्यस्मिन् तादा- त्स्येनाभावः अभवनम् इति (वै० सा० द० ३४४ ) । सं च
( अन्योन्याभावः ) भेदः । भेदो हि घटे पटस्य पटे घटस्य च - सदास्तीति नित्यः । प्रतियोगिसमानाधिकरणश्चायमभावो भवति । घटो . न भूतलम् इति प्रतीत्या घटाधिकरणेपि भूतले घटभेदस्य विद्य- मानत्वात् । अत्रेदमवधेयम्-न हि कंचिदभावं प्रति येन केनापि
संबन्धेन प्रतियोगिनो विरोधिता । किंतु प्रतियोगितावच्छेदकसंबन्धेनैव प्रतियोगी अभावस्य विरोधी । तथा च अन्योन्याभावस्य प्रतियोगितावच्छेदक: संबन्धस्तादात्म्याख्य एव । अत एवायमभावः तादात्म्यसंबन्धावच्छिन्नप्रतियोगिताकः इत्युच्यते । तेन संबन्धेन च घटस्य स्वस्मिन्नेव सत्त्वेन भूतलादावसत्त्वात्तत्र घटान्योन्याभावो वर्तत इति ( वै० वि० ९।११४) । अन्योन्याभावग्रहेधिकरणयोग्यतामात्रं तत्रम् (वै० उ० ९।११४ ) ( ९।१।१८) । यथा पिशाचभेदाधिकरणे स्तम्भे योग्यतायाः सत्त्वेन स्तम्भः पिशाचो न इति
ग्रहः (चाक्षुषग्रहः ) उपपद्यते (मु० १११२७ )। नव्यास्तु ध्वंसप्राग. भावयोरिवान्योन्याभावस्यापि प्रतियोगितावच्छेदकसंबन्धे मानाभावः । ... अत्यन्ताभावस्य तु प्रतियोगितावच्छेदकसंबन्धः स्वीक्रियते। संयोगेन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org