________________
न्यायकोशः।
७५७ ( शतपथ० ) ( तै० सं० २।२ ) इति । अत्र अग्निदाहादौ निमित्ते कर्म विदधता अनेन वाक्येन निमित्तवतः कर्मजन्यपापक्षयरूपफलस्वाम्यं प्रतिपाद्यते ( लौ० भा० पृ० ३८ )। एवम् अहरहः संध्यामुपासीत ( बौधायनसू० ) इत्यादीन्यधिकारविधेरुदाहरणानि विज्ञेयानि । अत्र शुचिविहितकालजीविनः संध्योपासनजन्यप्रत्यवायपरिहाररूपफलस्वाम्यं चोद्यते ( लौ० भा० पृ० ३८ )। कुसुमाञ्जलिटीकायामित्थमुक्तम् । [ज] विधिर्नाम विधिप्रत्ययार्थः। अत्र व्युत्पत्तिः विधीयते विधिरूपशब्देन प्रतिपाद्यतेसौ विधिरिष्टसाधनत्वादिः ( म० प्र० ४ पृ० ५८ ) इति । स च प्रवर्तकज्ञानविषयो धर्मः। अयं च धर्मो जरनैयायिकानां नये कृतिसाध्यत्वे सति बलवदनिष्टाजनकत्वसहितमिष्टसाधनत्वम् । अत्र कृतिसाध्ये तृप्तिरूपसुखात्मकेष्टसाधने च मधुविषसंपृक्तानभोजने प्रवृत्तिवारणाय बलवदनिष्टाजनकत्वं विशेषणमावश्यकम् । अत्र बलवदनिष्टं तु मरणम् । यदा च तादृशभोजनं बलवदनिष्टाननुबन्धित्वेन ज्ञायते तदा स पुरुषः प्रवर्तत एव इति विज्ञेयम् (न्या० म० ख० ४ पृ० २६-२७)। अत्रेदं बोध्यम् । न कलझं भक्षयेत् इत्यादौ नबा बोध्यमानो विशिष्टाभावः ( कृतिसाध्यत्वविशिष्टस्य बलवदनिष्टाजनकत्वविशिष्टस्येष्टसाधनत्वस्याभावः ) विशेष्यवति विशेषणाभावे विश्राम्यतीति (मु० गु० पृ० २२८ )। एतन्मते श्येनस्य हिंसारूपत्वं नास्ति इति श्येनेनाभिचरन् यजेत ( अथर्वब्राह्म० ) इत्यादी बलवदनिष्टाननुबन्धित्वरूपो विध्यर्थों बोध्यते इति हृदयम् । यथा ओदनकामः पचेत स्वर्गकामो यजेतेत्यादौ
ओदनस्वर्गादिरूपं यत् फलम् तत्साधनत्वं पाकयागादिक्रियायां प्रतीयते ( कु० टी०. ५) ( त० प्र० ४ पृ. १०५ ) ( तर्का० )(ग० व्यु० ल० पृ० १३८ ) ( त० दी०.) (मु० गु० ) ( दि० पृ० २२६)। नव्यनैयायिकमते तु प्रवर्तकचिकीर्षायां यत्प्रकारकज्ञानस्य हेतुत्वं स विधिः । कृतिसाध्यत्वादिज्ञानेन चिकीर्षा तया च प्रवृत्तिरुत्पद्यते इति समुदितार्थः ( न्या० म० ४ पृ० २७ ) । तादृशं च कृतिसाध्यत्वम् इष्टसाधनत्वम् बलवदनिष्टाननुबन्धित्वं च प्रत्येकमेव । यथा यजेत पचेतेत्यादौ लिङर्थः ( त० प्र० ४ पृ० १०२ )। कृतिसाध्यत्वादि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org