________________
७५६
न्यायकोशः। .. अग्निहोत्रं जुहुयात् स्वर्गकामः इत्यादि इत्याहुः । अयं विधिर्मानान्तरेणाप्राप्तं स्वर्गप्रयोजनवद्धोमं विधत्ते । अग्निहोत्रहोमेन स्वर्गं भावयेत् इति वाक्यार्थबोधः (लौ० भा० पृ० १३ )। यत्र कर्म मानान्तरेण प्राप्तम् तत्र तदुद्देशेन गुणमानं विधत्ते । यथा दध्ना जुहोति (तै० ब्रा० २।११५) (शतप० ) इति । अत्र होमस्य अग्निहोत्रं जुहुयात् इत्यनेन प्राप्तत्वाद्धोमोदेशेन दधिमात्रविधानम् । दध्ना होमं भावयेत् इति वाक्यार्थः। यत्र तूभयमप्राप्तम् तत्र विशिष्टं विधत्ते । यथा सोमेन यजेत ( शतपथ ० ) इत्यत्र सोमयागयोरप्राप्तत्वात् सोमविशिष्टयागविधानम् । सोमपदे मत्वर्थलक्षणया सोमवता यागेनेष्टं भावयेत् इति वाक्यार्थबोधः (लौ० भा० पृ० १३)। [च] धर्मार्थसाधकव्यापारो विधिः (सर्व० सं० पृ० १६९ नकुली०)। [छ ] अज्ञातस्यानुष्ठेयत्वकथनं विधिः (जै० न्या० अ० १ पा० ४ अधि० ६)। सामान्यतोयं विधिर्द्विविधः लौकिक: वैदिकश्च । तत्र लौकिकः ओदनकामस्तण्डुलं पचेत् इत्यादिः । वैदिकविधिस्तु स्वर्गकामो यजेत (शतपथ० ) इत्यादिः। विधिः प्रकारान्तरेण त्रिविधः अपूर्वविधिः नियमविधिः परिसंख्याविधिश्च ( न्या० म० ४ ) ( सि० च० )। तदुक्तं भट्टपादैः विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसंख्येति कीर्त्यते ॥ ( न्या० म० ) इति । तत्रापूर्वविधिश्चतुर्विधः उत्पत्तिविधिः विनियोगविधिः प्रयोगविधिः अधिकारविधिश्चेति (लौ० भा० पृ० १६) । तत्र प्राथमिकप्रतीतिविषयप्रवृत्तिसाधनेष्टसाधनताबोधकं कर्मस्वरूपज्ञापकं विधिवाक्यम् उत्पत्तिविधिः । यथा स्वर्गकामोश्वमेधेन यजेत (शतपथ० ) इत्यादिवाक्यम् (वाच० )। अत्र शिष्टं तु उत्पत्तिविधिशब्दव्याख्याने दृश्यम् । अधिकारविधिश्च कर्मणः फलसंबन्धबोधको विधिः। यथा ज्योतिष्टोमेन यजेत स्वर्गकामः इत्यादिः ( म०प्र० पृ. ६३ ) । अथ वा कर्मजन्यफलस्वाम्यबोधको विधिः । कर्मजन्यफलस्वाम्यं च कर्मजन्यफलभोक्तत्वम् । यथा यजेत स्वर्गकामः इत्यादिरूपोधिकारविधिः । अत्र स्वर्गमुद्दिश्य यागं विदधतानेन स्वर्गकामस्य यागजन्यफलभोक्तत्वं प्रतिपाद्यते (लौ० भा० पृ० ३८)। यथा वा यस्याहिताग्नेरग्निहान् दहेत्सोग्नये क्षामवतेष्टाकपालं निर्वपेत्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org