________________
न्यायकोशः।
७५५ तद्विधा (मनु० २।११२) इत्यादौ । ४ काव्यज्ञास्तु सादृश्यम् । यथा तथाविधः स्वार्थः ( श० प्र० श्लो० ७ टी० पृ० ८ ) इत्यादौ । यथा वा किमप्यहिंस्यस्तव चेन्मतोहं यशःशरीरे भव मे दयालुः । एकान्तविध्वंसिषु
मद्विधानां पिण्डेष्वनास्था खलु भौतिकेषु॥(रघु० २।५७) इत्यादी इत्याहुः। विधानम्-अप्रवृत्तप्रवर्तनम् । तच्च पुरुषविषयः शब्दव्यापारः (जै०
न्या० अ० २ पा० ३ अधि० १३ )। विधिः-१ (प्रमाणशब्दः) [क] विधिविधायकः (गौ० २।१।६३ )।
अयं विधिना॑ह्मणभागः (वात्स्या० २।१।६२ )। अत्राभिधैव लिङर्थः । सैव च प्रवृत्तिहेतुः इति विज्ञेयम् ( त० प्र० ख० ४ पृ० ९४ )। अत्र विधिशब्दस्य विधिरूपशब्दे इष्टसाधनत्वादिरूपे विध्यर्थे च प्रयोगो दृश्यते । तत्र विधायक इति आद्यार्थः । यद्वाक्यं विधायकं चोदकं स विधिः । विधिन्तु नियोगोनुज्ञा वा । यथा अग्निहोत्रं जुहुयात्स्वर्गकामः (शतपथ० २) इत्यादि (वात्स्या० २।१।६३)। [ख] इष्टसाधनताबोधकप्रत्ययसमभिव्याहृतवाक्यम् (गौ० वृ० २।१।६३)। [ग] विध्यभिधायकप्रत्ययः तद्भटितवाक्यं वा ( न्या० म० ४ )। तदर्थश्व विधीयते विधिरूपशब्देन प्रतिपाद्यतेसौ विधिरिष्टसाधनत्वादिः। तस्याभिधायको वाचकः इति । अथ वा अर्थविशेषाभिधायकः प्रत्ययः । स च प्रत्ययो लिङ्लोट्लेट्तव्यकृत्यप्रत्ययरूपः इति (सि० च० ) ( म० प्र० ४ पृ० ५८ ) ( त० प्र० ख० ४ पृ० ९३ )। तद्धटितवाक्यमिति द्वितीयं लक्षणं तु तात्रिकमते यजेत इत्यादिवाक्यमेव विधिः न तु केवलप्रत्ययः इत्यभिप्रायेण । [घ] प्रवृत्तिपरं वाक्यम् । यथा ज्योतिष्टोमेन स्वर्गकामो यजेत (शतपथ० ) ओदनकामस्तण्डुलं पचेत इत्यादि। अत्र ज्योतिष्टोमनामको यागः स्वर्गरूपेष्टसाधनम् तण्डुलकर्मकः पाक ओदनरूपेष्टसाधनम् इत्युभयवाक्यार्थः । यजेत पचेतेत्यादिविधिप्रत्ययेनेष्टसाधनत्योपस्थापनात् (त० कौ० ) । [3] मीमांसकास्तु अज्ञातार्थज्ञापको वेदभागः ( अपूर्वविधिः )। स च तादृशप्रयोजनवदर्थविधानेनार्थवान् । तादृशं चार्थं प्रमाणान्तरेणाप्राप्तं विधत्ते । यथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org