________________
७५४
न्यायकोशः।
विधवया सदा ॥ एकाहारः सदा कार्यो न द्वितीयः कदाचन । त्रिरात्रं पञ्चरात्रं वा पक्षवतमथापि वा ॥ मासोपवासं कुर्याद्वा चान्द्रायणमथापि वा। नाधिरोहेदनड्वाहं प्राणैः कण्ठगतैरपि । कञ्चुकं न परीदध्याद्वासो न विकृतं वसेत् ( काशीख० अ० ४ ) इति च । मनुरप्याह कामं तु क्षपयेदेहं पुष्पमूलफलैः शुभैः । न तु नामापि गृह्णीयात् पत्यौ प्रेते परस्य तु ॥ मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता । स्वर्ग गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः ॥ न द्वितीयश्च साध्वीनां क्वचिद्भर्तोपदिश्यते (मनु० अ० ५ श्लो० १५७–१६२) इति । अत्र धर्मप्रवृत्तिनिबन्धशिरोमणिशास्त्रप्रदीपादौ बाभ्रव्य आह अज्ञानात्तु. द्विजो यस्तु विधवामुद्वहेद्यदि । परित्यज्य विदित्वैनां प्रायश्चित्तं समाचरेत् ॥ अब्दमेकं विधायादाववकीर्णिव्रतं चरेत् । पुत्रश्चेन्जायते तस्यां रण्डगोलक उच्यते ॥ इति । कृते सप्तपदे भर्तुर्वियोगो यदि जायते । न देया पुनरन्यस्मै कलौ कन्या मनीषिभिः ॥ इति च । शिष्टं तु नियोगशब्दव्याख्याने दृश्यम् । शूद्रादिविषये तु न कुर्यात्केशसंस्कारं गात्रसंस्कारमेव च । केशावली जटारूपा न क्षौर तीर्थकं विना ॥ तैलाभ्यङ्गं न कुर्वीत न हि पश्यति दर्पणम् (ब्रह्मवै० पु० ज० ख० अ० ८३ ) इत्यादि । अन्वारोहणं सहगमनम्। अत्रोक्तमङ्गिरसा हारीतेन च साध्वीनामेव नारीणामग्निप्रपतनादृते । नान्यो धर्मो हि विज्ञेयो मृते भर्तरि कर्हिचित् ॥ इत्यादि । साध्वीलक्षणं तु आर्तेि मुदिता हृष्टे प्रोषिते मलिना कृशा । मृते म्रियेत या पत्यौ साध्वी ज्ञेया पतिव्रता ॥ इति । बृहन्नारदीये तु बालापत्याश्च गर्भिण्यो ह्यदृष्टऋतवस्तथा । रजस्वला राजसुते नारोहन्ति चितां शुभे ॥
( वाच० ) इति । विधा-१ त्वप्रत्ययवदस्यार्थीनुसंधेयः । स च प्रकारीभूतो धर्मः । यथा
धूमवान्पर्वतो वह्निमानित्यनुमितौ पक्षतावच्छेदकविधया धूमस्य भानमिति इत्यादौ विधाशब्दार्थः ( दि० १ काल० पृ० ८९ )। अत्र धूमस्य पक्षतावच्छेदकत्वेन भानमस्ति इत्यर्थो बोध्यः । २ प्रभेदः। यथा द्विविधः त्रिविधः इत्यादौ । ३ प्रकारः । यथा धर्मार्थो यत्र न स्यातां शुश्रूषा वापि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org