________________
न्यायकोशः।
७४९ मुपक्रम्य परिषदि श्रोतुमेकाग्रमनसि प्रतियोगिनि च दत्तावधाने संप्रति मे महत्प्रयोजनमस्ति श्वः परश्वो वा कथयिष्यामि इति कस्यचिद्व्याजस्य वचने तस्य विक्षेपलक्षणं नाम निग्रहस्थानमाहुराचार्याः ( सा० सं० पृ० ११५ )। २ चित्तस्य नवविधो भ्रंशो विक्षेपः इति पातञ्जलयोगशास्त्रज्ञा आहुः । अत्र सूत्रम् व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपाः तेन्तरायाः ( पात० सू० पाद० १ सू० ३०) इति । ३ मायावादिनस्तु अविद्याशक्तिविशेषः । यथा रज्वज्ञानं स्वावृतरज्जौ स्वशक्त्या सर्पादिकमुद्भावयति इत्यादौ इत्याहुः ( वेदा० सा० )। ४ विमण्डले यद्गृहस्थानम् तस्य क्रान्तिवृत्ताद्यत् तिर्यगन्तरम् स विक्षेपः इति ज्योतिर्विद आहुः (सि०शि०)। अयमेव शरः इत्युच्यते । ५ स्त्रीणां सत्त्वजोलंकारविशेषः इत्यालंकारिका आहुः । तदुक्तम् भूषणामर्धरचना वृथा विश्वगवेक्षणम् । रहम्याख्यानमीषच्च विक्षेपो दयितान्ति के ।। ( सा० द० परि० ३ श्लो० १०८ पृ० १३१) इति । अयं च स्त्रीणां सत्त्वजानामष्टाविंशतिसंख्यकानामलंकाराणामन्यतमः स्वभावजो विक्षेपो नाम विच्छित्तिविशेष पुष्णाति
( सा० द० परि० ३ श्लो० ९२ पृ० १२१)।। विगीतत्वम्- १ वेदनिषिद्धत्वम् (चि० १)। यथा सुरापानादेर्विगीतत्वम्। .
अत्र निषेधकश्रुति: न सुरां पिबेत् इत्यादिः । सर्व मद्यमपेयम् ( आप० स्मृ० ) इति स्मृतिश्च । अत्र वेदपदं स्मृत्याधुपलक्षणम् । न क्षुर्यान्निष्फलं कर्म इत्यादिना निष्फलजलताडनादेरपि निषिद्धत्वात् । २ लौकिकविषयकत्वम् । ३ वेदनिषिद्धविषयकत्वम् । यथा मङ्गलं कर्तव्यम् अलौकिकाविगीतशिष्टाचारविषयत्वात् दर्शादिवत् इत्यादौ विगीतत्वम् । ४ पापजनकत्वम् । ५ बलवदनिष्टानुबन्धित्वम् ( मू० म० १)
(दि० १ ) ( म० वा० १)। . विग्रहः-१ निर्देशे यथावचनम् (वात्स्या० १।१।१ ) ( न्या० वा० १
पृ० ११)। यथा प्रमागप्रमेयसंशयप्रयोजन इत्या दिसूत्रे प्रमाणानि च प्रमेयं च संशयश्च प्रयोजनं च इत्यादिविग्रहं वर्णयन्ति (गौ० वृ० १।१।१ )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org