________________
७५०
न्यायकोशः। .
अत्रेदमधिकं ज्ञेयम् । विग्रह एव समासलभ्यार्थस्य बोधकत्वं तत्रम् न तु समासे विग्रहार्थस्य । विग्रहलभ्ययोर्लिङ्गसंख्ययोर्व्यञ्जकवैधुर्येण प्रायशः समासाबोध्यत्वात् ( श० प्र० श्लो० ३२ पृ० ४. ) इति । केचिच्छाब्दिकाः वृत्त्यर्थावबोधकं वाक्यं विग्रहः इति वदन्ति ( म० प्र० ४ पृ० ४३ )। अन्ये वैयाकरणास्तु समासादिवृत्तिसमानार्थकवाक्यविशेषः इत्याहुः । २ विशेषज्ञानम्। यथा अविग्रहागतादिस्था यथा ग्रामादिकर्मभिः ( हरिवं० ) इत्यादी इति पौराणिका आहुः। ३ विस्तारः इत्यमरसिंह
आह। ४ युद्धम् इति नीतिशास्त्रज्ञा आहुः। ५ देहः इति काव्यज्ञा वदन्ति । विघातः-ध्वंसः ( दि० १ ) । यथा विघ्नविघाताय मङ्गलम् (मु० १) · इत्यादौ । २ आघातः। विनः-समीहितक्रियास्वरूपप्रतिबन्धकम् । तच्च क्वचित् दुरितम् ( कि०
व० ४ )। यथा सर्वे विघ्नाः शमं यान्ति विनेशस्तवपाठतः इत्यादौ । लक्षणं तु विघ्नत्वम् । तच्च मङ्गलनाश्यतावच्छेदकः अदृष्टनिष्ठो जातिविशेषः । विघ्नकारणं च मङ्गलाभावेतरविन्नप्रागभावनाशककारणकलापः
(मू० म० १)। विचारः-१ विपरीतोद्भावकपरविजिगीषया न्यायप्रयोगः इत्यस्मद्गुरुचरणाः
प्राहुः । यथा परार्थानुमानस्थले पर्वतो वह्निमान् धूमवत्त्वात् इत्यादि । अत्र च पर्वते वह्नौ साधनीये प्रतिवादिना पर्वतो न वह्निमान् इत्यादिविपरीतवाक्ये प्रयुक्त मध्यस्थस्य संशयो जन्यते । तन्निवृत्तिद्वारा प्रतिवादिपराभवार्थं वादिना पर्वतो वह्निमान इत्यादिप्रतिज्ञाघटितवाक्यप्रयोगरूपविचारः क्रियते इति विज्ञेयम् । २ तत्त्वनिर्णयः । ३ संदिग्धे वस्तुनि
प्रमाणेन तत्त्वपरीक्षायां तदनुगुणो वाक्यसमूहो विचारः । विचिकित्सा-(दोषः) संशयशब्दवदस्यार्थीनुसंधेयः ( अमरः १ )। विच्छिन्नत्वम्-बलवता क्लेशेनाभिभवः ( सर्व० सं० पृ० ३५९ पात०)। विजयः—ईषत्संध्यामतिक्रान्तः किंचिदुद्भिन्नतारकः । विजयो नाम कालोयं . सर्वकार्यार्थसाधकः ॥ ( पु० चि० पृ० १४८ )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org