________________
न्यायकोशः।
७४७ इति चोदकशब्दितातिदेशवाक्येन इति ( लौ० भा० पृ० २३ )।
४ स्वरविशेषः । यथा श्रीरागे गान्धारो विकृतिस्वरः इति गायकाः आहुः। विक्रयः-[क] मूल्यग्रहणपूर्वकं दानम् । यथा तुरगमस्मै विक्रीणीत
इत्यादौ धात्वर्थः । अत्र तुरगश्च न मूल्यम् । पणपुराणादेरेव शास्त्रे तथात्वोपदेशात् ( श० प्र० श्लो० ६९ टी० पृ० ८६ ) । अथ क्रयविक्रयविचारे विवादचिन्तामणौ कात्यायनः पण्यं गृहीत्वा यो मूल्यमदत्वैव दिशं व्रजेत् । ऋतुत्रयस्योपरिष्टात् तद्धनं वृद्धिमाप्नुयात् ॥ इति । मनुः विक्रयाद्यो धनं किंचिद्गृह्मीयात्कुलसंनिधौ । क्रयेण स विशुद्धं हि न्यायतो लभते धनम् ॥ ( मनु० अ० ८ श्लो० २०१)। क्रीत्वा विक्रीय वा किंचिद्योस्येहानुशयो भवेत् । सोन्तर्दशाहात्तद्रव्यं दद्याच्चैवाददीत च ॥ ( मनु० अ० ८ श्लो० २२२ ) इति । याज्ञवल्क्यनारदौ राजदैवोपघातेन पण्ये दोषमुपागते । हानिर्विक्रेतुरेवासौ याचितस्याप्रयच्छतः ॥ ( याज्ञ० अ० २ श्लो० २६१ ) इति । स्वं लभेतान्यविक्रीतं केतुर्दोषोप्रकाशिते । हीनाद्रहो हीनमूल्ये वेलाहीने च तस्करः।। (याज्ञ० अ० २ श्लो० १७३.)। विक्रीतमपि विक्रेयं पूर्वक्रेतर्यगृह्णति । हानिश्चेत्केतृदोषेण केतुरेव हि सा भवेत्॥ (याज्ञ० अ० २ श्लो०२६०) इति । [ख] मूल्यग्रहणजन्यस्य परस्वत्वस्यानुकूलत्यागः । ग्रामं विक्रीणातीत्यादौ ग्रामनिष्ठस्य मूल्यग्रहणजन्यपरस्वत्वस्यानुकुलो यो ग्रामस्य त्यागः तद्वान् इति बोधः (श० प्र० श्लो० ७२ पृ० ९६)। [ग] परस्वत्वजनकमूल्यग्रहणं वा । यथा ग्राम विक्रीणातीत्यत्र धात्वर्थो विक्रयः । अत्र पक्षे ग्राम विक्रीणातीत्यादौ ग्रामनिष्ठं यत्परस्वत्वम् तदनुकूलमूल्यग्रहणवान् इति बोधः । मूल्यं च पणपुराणादिकमेव राजनिर्दिष्टम् न तु द्रव्यमात्रम् । तेन तिलादीन दत्वा माषादीनां विनिमये विप्राणां तिलविक्रयादिदोषस्यानवकाशः (श० प्र० श्लो० ७२ टी. पृ० ९७ )। [घ मूल्यग्रहणप्रयुक्तस्वस्वत्वध्वंसपरस्वत्वजनकत्यागः । यथा गां विक्रीणातीत्यादौ इति प्राश्च आहुः । अत्र गोवृत्तिमूल्यग्रहणप्रयुक्तस्वस्वत्वध्वंसपरस्वत्वानुकूलत्यागव्यापारानुकूल कृतिमान् इत्येवं बोधः ( का० व्या० का० ४ पृ० ५)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org