________________
न्यायकोशः। सू० ७७ ) इत्यादिना इकारादेर्विकारो यकारादिः इति । परे तु इकारे प्रयोक्तव्ये यकारः प्रयोक्तव्यः इत्यादेशमादिशन्ति (गौ० वृ०२।२।४०)। ३ यास्कोक्ता भावविकारा षट् । जायते अस्ति विपरिणमतेः वर्धते अप
क्षीयते विनश्यति इति षड् भावविकाराः भवन्तीति वार्ष्यायणिः । विकार्यम्-(विकृतिरूपं कर्म)[क] क्रियानिष्पाद्यं यत्तत् । यथा तण्डुला
नोदनं पचति कुसुमानि स्रजं करोति काशान्कटं करोतीत्यादौ प्रकृतिभूततण्डुलकुसुमकाशादिपदसमभिव्याहारे ओदनस्रगादि विकार्यरूपं कर्म भवति । अत्र विकार्यपदेन एकव्युत्पत्त्या प्रकृतिविकृत्युभयाबोधनेपि उभयसाधारणरूपावच्छिन्ने पारिभाषिकमेव विकार्यपदम् । अत्रेदं बोध्यम् । ओदनस्रगादेर्यदा कर्मत्वम् तदा तत्प्रकृतिभूततण्डुलकुसुमादीनामपि कर्मत्वं बोध्यते । प्रकृतिविकृतिभावस्थले कर्माख्यातेन प्रकृतेः कर्मत्वमेव प्रत्याय्यते । अतः काष्ठानि भस्मराशिः क्रियन्ते इति प्रयोग उपपद्यते । अत्र भस्मादिनिर्वय॑कर्मताया लकारेणानभिधानेपि तत्कर्मताया धात्वर्थे संसर्गतया भानोपगमेन तादृशकर्मोत्तरं प्रथमायाः साधुता । प्रातिपदिकार्थविशेष्यतया कर्मत्वादिविवक्षायामेव द्वितीयादिविभक्तिसाधुत्वात् ( ग० व्यु० २ पृ० ६७ ) इति । [ख] यल्लक्ष्यं तन्नाशकमेवावस्थान्तरमापद्यते तत्। यथा काष्ठं भस्म करोति सुवर्णं कुण्डलं करोतीत्यादौ काष्ठादि । अत्र काष्ठादिपदलक्ष्यस्य काष्ठावयवादेः स्वनाशक- . भस्मादिरूपावस्थान्तरप्राप्तेलक्षणसमन्वयः । ओदनं पचतीत्यादौ ओदनपदलक्ष्य ओदनावयवः । पच्यर्थो रूपादिपरावृत्त्यवच्छिन्नस्तेजःसंयोगः । तथा च धात्वर्थजन्यफलशालित्वात् सतोवस्थान्तरप्राप्तेश्चोभयविधकर्मत्वमोदनावयवस्येष्टम् (का० व्या० पृ० ६)। [ग] शाब्दिकास्तु प्रकृतिविवक्षायां निष्पाद्यम् । काष्ठं भस्म करोतीत्यादी असत्या एव काष्टादिरूपप्रकृतेः परिणामित्वेन विवक्षास्ति इत्याहुः । तदुक्तमविकार्य तु द्वेधा कर्म व्यवस्थितम् । प्रकृत्युच्छेदसंभूतं किंचित्काष्ठादिभस्मवत् । किंचिद्गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् । तल्लक्षणं तु प्रतीयमानप्रकृतिविकृतिभावकत्वे सति क्रियानिर्वाह्यविशिष्टासत्त्व उत्पत्ति एतदन्यतरफल९४ न्या. को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org