________________
છgછે
न्यायकोशः। उपलक्षणं चैतत् अन्यवृत्तिधर्मस्यापि बोध्यम् । व्यभिचारोपि हेतोधर्मान्तरं प्रति धर्मान्तरस्य साध्यं प्रति धर्मान्तरस्य धर्मान्तरं प्रति वा ( गौ० वृ० ५।१।४ )। [ख] कस्यचिद्धर्मस्य क्वचिव्यभिचारदर्शनेन धर्मत्वाविशेषात्प्रकृतहेतोः प्रकृतसाध्यं प्रति व्यभिचारापादनम् । यथा शब्दः अनित्यः कृतकत्वादित्यत्र कृतकत्वस्य गुरुत्वव्यभिचारदर्शनात् गुरुत्वस्यानित्यत्वव्यभिचारदर्शनात् नित्यत्वस्य मूर्तत्वव्यभिचारदर्शनात् धर्मत्वाविशेषात्कृतकत्वमप्यनित्यत्वं व्यभिचरेदिति (गौ० वृ० ५।१।४ )। तथा चोक्तम् धर्मस्यैकस्य केनापि धर्मेण व्यभिचारतः । हेतोः साध्याभिचारोक्तौ विकल्पसमजातिता ॥ (ता. २० परि० २ श्लो० १०९) इति । [ग] दृष्टान्तविकल्पं प्रदय दार्टान्तिकविकल्पकथनम् (नील० पृ० ४३ )। अत्र शिष्टमुदाहरणादिकं तु भाष्यतुल्यमेव नीलकण्ठ्यां प्रतिपादितम् इति तन्नात्र संगृहीतम् इति विज्ञेयम् ।
अनैकान्तिकदेशनाभासोयम् ( गौ० वृ० ५।१।४)। विकारः-१ [क] स्वरूपस्य विनाशे अविनाशे वा द्रव्यान्तरारम्भकत्वम्।
यथा दुग्धादेर्दध्यारम्भकत्वम् बीजादेवृक्षाद्यारम्भकत्वं च । सुवर्णादेरपि लोहाघातजन्यावयवसंयोगनाशादवयविनो नाशे सत्येव कुण्डलारम्भः । कपालादेश्व स्वरूपाविनाशेन घटाद्यारम्भकत्वम् (गौ० वृ० २।२।४०)। सांख्यैश्च पञ्चविंशतितत्त्वमध्ये षोडशपदार्था विकारशब्देनोक्ताः। तदुक्तम् षोडशकस्तु विकार इति । अस्यार्थः षोडशसंख्यावच्छिन्नो गणः षोडशको विकारः एवेति (सर्व० सं० पृ० ३१८ साङ्खय० )। [ख] प्रकृतेरन्यरूपः परिणामः ( वाच० )। अयं विकारधर्मो द्रव्यसामान्ये । यदात्मकं द्रव्यं मृद्वा सुवर्णं वा तस्यात्मनोन्वये पूर्वो व्यूहो निवर्तते व्यूहान्तरं चोपजायते तं विकारमाचक्षते ( वात्स्या० २।२।४५ )। अत्राधिकं च कर्मशब्दव्याख्याने दृश्यम् । [ग] अन्ये तु स्वरूपपरित्यागेन रूपान्तरापत्तिः ( गौ० वृ० २।२।५२ ) इत्याहुः । २ वर्णविकारस्तु गुणान्तरापत्त्युपमर्दह्रासवृद्धिलेशश्लेषेभ्यः० (गौ० २।२।५६) इति सूत्रे उक्तः । अत्र केचिदाहुः इको यणचि (पाणि० अ० ६ पा०१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org